ॐ गुरुपरमात्मने नमः

- ४०-१०८ द्वितीयतरङ्गः -- अनुबन्धानां विशेषतो निरूपणम्

- ४०-१०८ संबन्धविषयकाक्षेपः समाधानं च

आवर्तः १०७ – आक्षेपः

अधिकार्याद्यसिद्धेर्न संबन्धोऽपि सिद्ध्यति। तथा हि,

(१) विषयासिद्ध्या ग्रन्थविषययोः प्रतिपाद्यप्रतिपादकभावरूपः संबन्धो न सिद्ध्यति।

(२) अधिकारिफलयोरभावाच्चानयोः प्राप्यप्रापकभावरूपसंबन्धो न सिद्ध्यति।

(३) अधिकार्यसिद्ध्या अधिकारिविचारयोः कर्तृकर्तव्यभावरूपसंबन्धो न सिद्ध्यति।

(४) निष्फलत्वाज्ज्ञानस्य ग्रन्थज्ञानयोर्जन्यजनकभावः संबन्धोऽपि न सिद्ध्यति। सफलं च वस्तूत्पद्येत न निष्फलं, ज्ञानं तु पूर्वोक्तरीत्या न सफलम्।

(५) किञ्च ज्ञानस्य स्वरूपासिद्ध्यैव न ज्ञानग्रन्थयोः संबन्धो घटते। सिद्धान्ते हि जीवब्रह्माभेदनिश्चय एव ज्ञानमित्युच्यते। जीवब्रह्माभेदासंभवादेव स च निश्चयो मृषेति प्राग्विषयप्रस्तावे आक्षिप्तत्वादभेदनिश्चयरूपं ज्ञानं न सिद्ध्यति। इत्थमधिकार्याद्यनुबन्धचतुष्टयासिद्ध्यास्य ग्रन्थस्यारम्भो विफल इति।