ॐ गुरुपरमात्मने नमः

- ४०-१०८ द्वितीयतरङ्गः -- अनुबन्धानां विशेषतो निरूपणम्
- १०७-१०८ संबन्धविषयकाक्षेपः समाधानं च


आवर्तः १०८ – समाधानम्

पूर्वोक्तप्रकारेण ग्रन्थस्याधिकारिविषयप्रयोजनानां श्रुतियुक्त्यनुभवैः प्रसाधितत्वादेषां संबन्धोऽपि संभवति। तस्मादस्य ग्रन्थस्यारम्भः शक्यत एव कर्तुम्।

॥ इति श्रीवासुदेवब्रह्मेन्द्रसरस्वतीविरचिते संस्कृतविचारसागरे अनुबन्धानां विशेषतो निरूपणं नाम द्वितीयस्तरङ्गः॥