- तृतीयतरङ्गः -- गुरुशिष्यस्वरूपनिरूपणम्
आवर्तः १०९ – ग्रन्थारम्भप्रतिज्ञा
यस्त्वनुबन्धचतुष्टयं सम्यक् विज्ञाय वेदान्तविज्ञानसुनिश्चितार्थं स्थितप्रज्ञं वरिष्ठं श्रोत्रियं सद्गुरुमासाद्य तत्प्रसादाद्वेदान्तग्रन्थं पठति, शृणोति चात्यादरेण श्रद्धया भक्त्या च स एव मोक्षसाधनं ज्ञानं प्राप्नोति। गुरुशिष्यसंवादरूपेणार्थनिरूपणे कृते श्रोतॄणां सुखावबोधो भवेदिति गुरुशिष्यप्रश्नप्रतिवचनरूपेण ग्रन्थ आरभ्यते।