आवर्तः ११० – गुरुलक्षणम्
यः साङ्गवेदाध्यायी तदर्थज्ञो जीवब्रह्मैक्यविषयकदृढतरनिश्चयात्परिनिष्ठितात्मसाक्षात्कारवान् स एव *१ गुरुः।
*१. यथा स्वयं मार्गज्ञो मार्गोपदेशे समर्थस्तथा ब्रह्मस्वरूपज्ञ एव ब्रह्मोपदेशयोग्यो भवति।
न हि वेदाध्ययनवत्त्वमात्रेणात्मज्ञानशून्यो गुरुर्भवति। आत्मज्ञोऽपि वेदाध्ययनशून्यः, स्वयं मुक्तोऽपि परोपदेशयोग्यगुरुर्न स्यात्; यतो जिज्ञासुशिष्यहृद्गतसन्देहनिवर्तनक्षमाणां युक्तीनां प्रतिभानं वेदाध्ययनशून्यस्य न जायते। सन्देहशून्यस्योत्तमसंस्कारवतश्चरमजन्मनो जिज्ञासोरुपदेशे समर्थोऽप्ययम्, साधारण्येन सर्वमुमुक्षुजनोपदेशसामर्थ्याभावान्नाचार्यो भवितुमर्हति। तस्माद्वेदाध्ययनसम्पन्न आत्मज्ञश्चैवाचार्य इत्युच्यते। स हि शिष्यबुद्धिगतपञ्चविधभेदात् *२ नानायुक्तिभिर्निवर्तयितुं समर्थः स्यात्।
*२. पञ्चभेदखण्डनयुक्तयः -
(१) घटाकाशमठाकाशभेदवत् जीवेश्वरभेदोऽविद्यामायारूपोपाधिजनितत्वात् कल्पितः।
(२) नानाघटाकाशभेदवत् जीवानां परस्परभेद आभाससहितान्तःकरणरूपोपाधिजनितत्वात् कल्पितः।
(३) जीवजडभेदः साभासान्तःकरणनिराभासनामरूपमायोपाधिजनितत्वात् कल्पितः।
(४) ईश्वरजडभेदः साभासमायानामरूपमायोपाधिजनितत्वात् कल्पितः।
(५) रज्वारोपितसर्पदण्डादिभेदवत् जडानां परस्परभेदो नामरूपमायोपाधिजनि० तत्वात् कल्पितः।
ते च भेदाः (१) जीवेश्वरभेदः, (२) जीवानां परस्परभेदः, (३) जीवजडभेदः, (४) ईश्वरजडभेदः, (५) जडानां परस्परभेद इति। सर्वानेतान् भेदान् खण्डयितुं स एव समर्थः। भेदश्च *१ भयहेतुः।
*१. जननमरणात्मकं भयम्।
“उदरमन्तरं कुरुते “ (तै. ब्र. ७) “ द्वितीयाद्वै भयं भवति” (बृ. १.४.२) इत्यादिश्रुतिभ्यः। तस्माद्भेदोऽवश्यं खण्डनीयः। उक्तलक्षण एवाचार्यः स्वशिष्यं ‘अविद्यादिसर्वमलशून्याद्वितीयब्रह्मैवाहमस्मि इति साक्षादपरोक्षानुभववन्तं कर्तुं शक्नुयात्। तादृशसाक्षात्कारवानेव शिष्यः, ‘सर्वोऽपि संसारो दृश्यप्रपञ्चो द्वैतः स्वप्नादिवन्मयि चिन्मात्रे स्वाज्ञानवशान्मिथ्या प्रतिभासते´ इति साक्षाज्जानीयात्। ईदृशाद्भुतदुर्दर्शस्वात्मतत्त्वोपदेष्टैव आचार्य इत्युच्यते। संसारमहाग्राहग्रस्तं शिष्यं तन्मुखाज्जीवब्रह्माद्वैतोपदेशेन *२ यो मोचयति स एव गुरुः।
*२. श्रीवासिष्ठद्विविधभागवतसूतसंहितादिसकलेतिहासपुराणादिकेष्वद्वैतमेव प्रतिपाद्यते। तथाष्टोत्तरशतोपनिषतस्वपि। अपि चानधिगताबाधितापूर्वत्वाच्चाद्वैतमेव शास्त्रार्थः।
किञ्च “बृह बृहि वृद्धौ” इति धातुर्वृद्धिमाचष्टे। सा च वृद्धिरत्र प्रतियोगिविशेषानुपादानान्निरतिशयैव विवक्षिता। सति तु वस्त्वन्तरे तेन परिच्छेदाद्वृद्धेर्निरतिशयत्वं भज्यते। तथा च वस्त्वन्तरकृतपरिच्छेदरहितमेव ब्रह्मशब्दवाच्यम्। देशकालयोरपि वस्तुत्वात् वस्तुमात्रस्य च ब्रह्मस्वरूपेऽध्यस्तत्वेन, वस्तुकृतपरिच्छेदनिरासेनैव ब्रह्मणि देशकालकृतपरिच्छेदनिरासो बोध्यः।
बहवो गुरवः सन्ति शिष्यवित्तापहारकाः।
दुर्लभोऽयं गुरुर्देवि शिष्यहृत्तापहारकः॥ (गु. गी. १६०)
इति स्मृतेः।