- ६६-८२ प्रयोजनविषयकाक्षेपाः
- ६६-७२ न ज्ञानेन बन्धनिवृत्तिरित्याक्षेपः
आवर्तः ७२ – ब्रह्मणो निर्विशेषत्वादप्यध्याससामग्र्यभावः
इतोऽपि ब्रह्मणि बन्धाध्यासो न संभवति। यतोऽत्यन्तमविज्ञाते वा विशेषतो ज्ञाते वाघिष्ठानेऽध्यासो न संभवति। किन्तु विशेषतोऽज्ञाते सामान्यतो ज्ञात एवाधिष्ठानेऽध्यासो जायेत। ब्रह्म हि सामान्यविशेषादिधर्मशून्यं निर्विशेषमिति च वेदान्तसिद्धान्तः। तत्कथं ब्रह्म विशेषतोऽज्ञातं सामान्यतो ज्ञातमिति च वक्तुं शक्यते। अपि चाध्यासलोभेन सामान्यविशेषधर्मकमेव ब्रह्मेति यद्यभ्युपगम्येत, तर्हि निर्विशेषं परं ब्रह्मेत्यभ्युपगमहानिः स्यात्। एवं च निर्विशेषस्वप्रकाशस्वरूपे ब्रह्मणि विशेषाज्ञानस्य सामान्यज्ञानस्य चासंभवादध्यासो नैव युज्यते। तस्माद्ब्रह्मणि बन्धोऽध्यस्त इति न शक्यत एव वक्तुम्। प्रत्युत बन्धः सत्य इत्येव वक्तव्यम्। सत्यश्चेद्बन्धो न ज्ञानान्निवर्तेत। तस्मादस्य ग्रन्थस्य ज्ञानाद्बन्धनिवृत्त्यात्मकमोक्षरूपप्रयोजनकथनमसङ्गतं स्यात्।