-
४०-१०८
द्वितीयतरङ्गः -- अनुबन्धानां विशेषतो निरूपणम्
- ६६-८२ प्रयोजनविषयकाक्षेपाः
- ६६-८२ कर्मणैव मोक्षः सिद्ध्यतीत्यैकभविकवादमवलम्ब्याक्षेपः
- ६६-८२ प्रयोजनविषयकाक्षेपाः
- ६६-८२ कर्मणैव मोक्षः सिद्ध्यतीत्यैकभविकवादमवलम्ब्याक्षेपः
आवर्तः ७३ – कर्मणोऽवश्यकर्तव्यत्वम्
पूर्वं ज्ञानमात्रान्न सत्यबन्धनिवृत्तिरित्युक्तम्। अधुना त्वैकभविकवादरीत्या कर्मणैव मोक्षसिद्धिरित्यभिप्रायः प्रपञ्च्यते। सत्यबन्धो न ज्ञानमात्रान्निवर्तेतेति पूर्वं साधितत्वान्मुमुक्षुणा नित्यं नैमित्तिकं च कर्मैव यावज्जीवं कर्तव्यम्।