ॐ गुरुपरमात्मने नमः

- ४०-१०८ द्वितीयतरङ्गः -- अनुबन्धानां विशेषतो निरूपणम्
- ६६-८२ प्रयोजनविषयकाक्षेपाः
- ७३-८१ कर्मणैव मोक्षः सिद्ध्यतीत्यैकभविकवादमवलम्ब्याक्षेपः


आवर्तः ७४ – कर्मविवरणम्

कर्म हि विहितं प्रतिषिद्धं चेति द्विविधम्। तत्र पुरुषप्रवृत्तिमधिकृत्य यद्वेदेन विधीयते तद् विहितम्। वेदेनैव यत्प्रतिषिध्यते तत् प्रतिषिद्धम्। स्वभावसिद्धरागद्वेषादिवशादनुष्ठीयमानास्तु चेष्टारूपाः क्रिया न कर्माणीत्युच्यन्ते। प्रवृत्तिनिवृत्त्यर्थं वेदोक्ता एव क्रियाः कर्माणीत्युच्यन्ते, न *१ तूदासीनकियाः सर्वा अपि। तस्माद् द्विप्रकाराण्येव कर्माणि। न ततोऽधिकानि।

Karma is of two kinds – vihita (enjoined) and pratiṣiddha (prohivited). What which is enjoined by the vedas with reference to the actions of humans is vihita. What which is prohibited by the vedas is pratiṣiddha.

That which is done due to one’s own nature (svabhāva), out of rāga and dveṣa are not karmas – these include the ceṣṭā rūpa kriyās. Only those kriyās told in the vedas for pravr̥tti or nivr̥tti are karmas, and not any of the udāsīna kriyās.

Thus, karmas are of two kinds, and not more than that.

*१. वेदेनानिषिद्धमविहितं च सदरागद्वेषतः कृतं गमनागमनशौचादि स्वाभाविकं सर्वप्राणिसाधारणं कर्म उदासीनं इति कथ्यते।

The actions which are not prohibited by the vedas, and are not done out of rāga or dveṣa such as going, coming, excretion etc, which are natural and common to all beings are udāsīna karmas.