ॐ गुरुपरमात्मने नमः

- ४०-१०८ द्वितीयतरङ्गः -- अनुबन्धानां विशेषतो निरूपणम्
- ६६-८२ प्रयोजनविषयकाक्षेपाः
- ७३-८१ कर्मणैव मोक्षः सिद्ध्यतीत्यैकभविकवादमवलम्ब्याक्षेपः


आवर्तः ७५ – विहितकर्मविवरणम्

विहितं कर्म चतुर्विधम्। (1) नित्यं (2) नैमित्तिकं (3) काम्यं (4) प्रायश्चित्तं चेति। तत्र पापपरिहारार्थं विहितं कर्म प्रायश्चित्तं इत्युच्यते। यथा *२ प्रेमादात्कश्चन सन्यासी द्रव्यार्जनेन पापं करोति यदि, स तत्पापक्षयार्थमर्जितं धनं सर्वं दूरतस्त्यक्त्वा त्रिरात्रं यदुपवसति, तत्तस्य पापस्य प्रायश्चित्तं भवति। फलार्थं विहितं कर्म काम्यम्। यथा वृष्टिकामेन क्रियमाणकारीर्यादियागः, स्वर्गाद्यर्थिना क्रियमाणाग्निहोत्रज्योतिष्टोमादिकं च काम्यं कर्म। यस्याननुष्ठानात्प्रत्यवायः श्रूयते, अनुष्ठानाच्च पुण्यापुण्यफलाभावः, यच्च न नित्यमेव विहितं, किन्तु यत्किञ्चिन्निमित्तमधिकृत्यैव विधीयते तत्कर्म नैमित्तिकम्। यथा सूर्योपरागादिनिमित्ते क्रियमाणश्राद्धस्नानादिकं, वयोवृद्धजातिवृद्धाश्रमवृद्धविद्यावृद्धधर्मवृद्धज्ञानवृद्धादीनामागमने ऽवश्यकर्तव्यप्रत्युत्थानादिकं च कर्म नैमित्तिकम्। अत्र विद्याशब्देन शास्त्रजन्यपरोक्षज्ञानं ज्ञानशब्देनापरोक्षज्ञानञ्च ग्राह्यम्। पूर्वोक्तेषु यथाक्रममुत्तरोत्तरो वरिष्ठः। यस्याननुष्ठानात्प्रत्यवायो भवति, अनुष्ठानाञ्च न सुकृतं भवति, यच्च नित्यतया विहितं, तत् नित्यं कर्म। यथा स्नानसन्ध्याग्निहोत्रादिकम्। इत्थं चतुर्विधानि विहितकर्माणि। निषिद्धेन सह पञ्चविधानि कर्माणि भवन्ति।

*२. अवश्यानुष्ठेयकर्मणो विस्मरणं, सत्यामपीच्छायामननुष्ठानं वा प्रमादः