ॐ गुरुपरमात्मने नमः

- ४०-१०८ द्वितीयतरङ्गः -- अनुबन्धानां विशेषतो निरूपणम्
- ६६-८२ प्रयोजनविषयकाक्षेपाः
- ७३-८१ कर्मणैव मोक्षः सिद्ध्यतीत्यैकभविकवादमवलम्ब्याक्षेपः

- ७३-८१ मुमुक्षुणा अनुष्ठेयकर्मणां निरूपणम्

आवर्तः ७६ – मुमुक्षुणा नित्यनैमित्तिककर्माणि कर्तव्यानि

मुमुक्षुणा काम्यनिषिद्धानि कर्माणि सर्वथा नानुष्ठेयानि; काम्यकर्मणां देवाद्युत्तमजन्महेतुत्वात्, निषिद्धानां कर्मणां कृमिकीटस्थावरादिनीचजन्महेतुत्वाच्च। तस्मान्मुमुक्षुस्तानि काम्यनिषिद्धानि कर्माणि वर्जयित्वा सदा नित्यान्यनुतिष्ठेत्, सति च निमित्ते नैमित्तिकान्यपि। अन्यथा नित्यनैमित्तिकाननुष्ठायी प्रत्यवेयात्, प्रत्यवायेन तिर्यगादिनीचयोनिं च प्राप्नुयात्। तस्मात् पापपरिहाराय नित्यनैमित्तिकानि कर्माण्यवश्यमनुष्ठेयान्येव। नित्यनैमित्तिककर्मणां तदननुष्ठानप्रयुक्तप्रत्यवायपरिहार एव फलं, न तु फलान्तरमस्ति। तस्मादवश्यं नित्यनैमित्तिककर्माणि कुर्यादेव मुमुक्षुः।