- ६६-८२ प्रयोजनविषयकाक्षेपाः
- ७३-८१ कर्मणैव मोक्षः सिद्ध्यतीत्यैकभविकवादमवलम्ब्याक्षेपः
- ७६-८० मुमुक्षुणा अनुष्ठेयकर्मणां निरूपणम्
आवर्तः ७७ – मुमुक्षुणा प्रायश्चित्तकर्माप्यनुष्ठेयम्
यः प्रमादात् पापं कर्म कदाचित् सकृत्प्रसङ्गात् समाचरेत् तद्दोषपरिहाराय तदुक्तप्रायश्चित्तं तेनानुष्ठेयम्। इह जन्मनि निषिद्धाचरणासंभवेऽपि जन्मान्तरार्जितपापपरिहाराय साधारणप्रायश्चित्तमवश्यं सर्वैरनुष्ठेयम्। प्रायश्चित्तं च द्विविधं – साधारणमसाधारणं चेति।
अस्य पापस्येदं प्रायश्चित्तमिति शास्त्रविहितं यत्तद् असाधारणं, यथा पूर्वोक्तोपवासादि। सर्वपायक्षयाय शास्त्रविहितं प्रायश्चितं साधारणं, यथा गङ्गादिपुण्यतीर्थस्नानेश्वरनामोच्चारणपञ्चाक्षरादिजपोपवासादि।
एवं शास्त्रेणैव द्विविधमपि प्रायश्चित्तं विहितम्। तत्र चेह जन्मनि बुद्धिपूर्वकृतपापपरिहाराय शास्त्रोक्तासाधारणप्रायश्चित्तं कार्यम्। इह जन्मनि जन्मान्तरे वाऽनुष्ठितस्याज्ञातस्य सर्वस्य पापस्य परिहारार्थं शास्त्रविहितसाधारणप्रायश्चित्तमनुष्ठेयम्।
असाधारणप्रायश्चित्तस्य ह्ययं स्वभावः – यत्पापनिवृत्तये यत् प्रायश्चित्तत्वेन विहितं तेन तत्पापमवश्यं निवर्तते, तद्भिन्नपापनिर्हरणे तदसमर्थमिति। इदमित्थमेवेति जन्मान्तरानुष्ठितपापापरिज्ञानात् तन्निवृत्तये साधारणप्रायश्चित्तमेवानुष्ठेयम्।