ॐ गुरुपरमात्मने नमः

- ४०-१०८ द्वितीयतरङ्गः -- अनुबन्धानां विशेषतो निरूपणम्
- ६६-८२ प्रयोजनविषयकाक्षेपाः
- ७३-८१ कर्मणैव मोक्षः सिद्ध्यतीत्यैकभविकवादमवलम्ब्याक्षेपः
- ७६-८० मुमुक्षुणा अनुष्ठेयकर्मणां निरूपणम्


आवर्तः ७८ – साधारणप्रायश्चित्तस्य द्विविधं फलम्

साधारणप्रायश्चित्तेन सर्वाण्यपि पापानि निवर्तन्ते। गङ्गास्नानादिसाधारणप्रायश्चित्तानि न केवलं प्रायश्चित्तत्वेन भवन्ति, किन्तु काम्यानि भवन्ति कामिनां, प्रायश्चित्तरूपाणि च भवन्ति पापक्षये। गङ्गास्नानेश्वरनामोच्चारणादीन्युत्तमदेवादिलोकप्राप्तिहेतुत्वेन शास्त्रविहितत्वात् काम्यानि, पापपरिहाराय विहितत्वात् प्रायश्चित्तरूपाण्यपि। यथाऽश्वमेधक्रतुर्ब्रह्महत्यादिपापं निवर्तयति, स्वर्गादिकाम्यफलं च प्रयच्छतीत्युभयात्मकः, एवं गङ्गास्नानेश्वरनामोच्चारणादीन्यपि पापपरिहारहेतुत्वात् प्रायश्चित्तात्मकानि। उत्तमलोकप्राप्तिहेतुत्वाच्च काम्यानीत्युभयात्मकान्युच्यन्ते। गङ्गास्नानादिकं कामिनां पापपरिहारद्वारोत्तमलोकश्च प्रयच्छति। उत्तमलोकप्राप्तिमनिच्छतो मुमुक्षोस्तु पापपरिहारमात्रं करोति। तस्मात् सकामेन कृतगङ्गास्नानादिप्रायश्चित्तरूपं काम्यं च भवति, मुमुक्षुणा कृतं तु केवलप्रायश्चित्तरूपम्। यथा वेदान्तिनां मते “सर्वाण्यपि कर्माणि सकामस्य संसारकारणानि, निष्कामस्यान्तःकरणशुद्धिद्वारा मोक्षकारणानि च भवन्ति”; तथा गङ्गास्नानेश्वरनामोच्चारणादिकं कर्म सकामस्य काम्यं प्रायश्चित्तरूपं च भवति, निष्कामस्य तु मुमुक्षोः केवलप्रायश्चित्तरूपम्। तस्मान्मुमुक्षुणा साधारणप्रायश्चित्तमनुष्ठेयम्। इत्थमेव जन्मान्तरसञ्चितं सर्वमपि पापं, ज्ञानं विनैव नश्यति।