ॐ गुरुपरमात्मने नमः

- ४०-१०८ द्वितीयतरङ्गः -- अनुबन्धानां विशेषतो निरूपणम्
- ६६-८२ प्रयोजनविषयकाक्षेपाः
- ७३-८१ कर्मणैव मोक्षः सिद्ध्यतीत्यैकभविकवादमवलम्ब्याक्षेपः
- ७६-८० मुमुक्षुणा अनुष्ठेयकर्मणां निरूपणम्


आवर्तः ७९ – मुमुक्षोः सञ्चितं काम्यकर्म न फलहेतुः

किञ्च मुमुक्षोर्जन्मान्तरानुष्ठितानि काम्यकर्माणि वन्ध्यावत् फलं न प्रसुवते। यथा वेदान्तसिद्धान्ते कर्मानुष्ठानकाले सत्यामेव फलेच्छायां तत्कर्म स्वर्गादिलोकप्राप्तिहेतुर्भवति, फलेच्छाऽभावे तु स्वर्गादिफलप्राप्तिहेतुर्न भवति; तथैकभविकवादेऽपि कर्मणः सिद्ध्यनन्तरमपि पुरुषेच्छेव फलहेतुः। यद्यपि जन्मान्तरे फलेच्छया काम्यं कर्मानुष्ठितं, तथापीदानीं तस्यैव पुरुषस्य मुमुक्षुत्वेन फलेच्छानिवृत्तौ तदीयसञ्चितं काम्यं न फलहेतुर्भवति। यथा कश्चन दरिद्रः कश्चन धनवन्तं धनेच्छया आराधयति, पश्चात् कतिपयकालानन्तरं येन केनचिद्धेतुना भाग्योदये धनेच्छा तस्य व्यपगच्छति, तदानीं न तस्य धनिकाद्धनप्राप्तिरूपमाराधनफलं जायते; तथा जन्मान्तरीयकर्मभ्यः काम्येभ्यः फलेच्छाविरहान्मुमुक्षोर्न फलं जायते। तस्मात् केवलकर्मणा मोक्षो जायेतैव।