-
४०-१०८
द्वितीयतरङ्गः -- अनुबन्धानां विशेषतो निरूपणम्
- ६६-८२ प्रयोजनविषयकाक्षेपाः
- ७३-८१ कर्मणैव मोक्षः सिद्ध्यतीत्यैकभविकवादमवलम्ब्याक्षेपः
- ७६-८० मुमुक्षुणा अनुष्ठेयकर्मणां निरूपणम्
- ६६-८२ प्रयोजनविषयकाक्षेपाः
- ७३-८१ कर्मणैव मोक्षः सिद्ध्यतीत्यैकभविकवादमवलम्ब्याक्षेपः
- ७६-८० मुमुक्षुणा अनुष्ठेयकर्मणां निरूपणम्
आवर्तः ८० – मुमुक्षोः प्रारब्धं भोगेन पश्यति
वर्तमानजन्मनि काम्यनिषिद्धकर्माननुष्ठानादूर्ध्वाधोलोकप्राप्तिर्न संभवति। जन्मान्तरीयाणां प्रारब्धफलानां निषिद्धकाम्यकर्मणां भोगेनैव क्षयः। नित्यनैमित्तिककर्माननुष्ठानजन्यप्रत्यवायरूपपापं तदनुष्ठानेन मुमुक्षोर्न जायते। जन्मान्तरसञ्चितनिषिद्धकर्माणि साधारणप्रायश्चित्तेन निवर्तन्ते। जन्मान्तरसञ्चितकाम्यकर्माणि तु मुमुक्षोरिच्छाभावादेव फलं न प्रयच्छन्ति। तस्मान्मुमुक्षुणा नित्यनैमित्तिकसाधारणप्रायश्चित्तरूपाणि कर्माण्यनुष्ठेयानि। वर्तमानजन्मनि बुद्धिपूर्वमाचरितपापकर्मक्षयार्थमसाधारणप्रायश्चित्तमप्यनुष्ठेयमेव।