ॐ गुरुपरमात्मने नमः

- ४०-१०८ द्वितीयतरङ्गः -- अनुबन्धानां विशेषतो निरूपणम्
- ६६-८२ प्रयोजनविषयकाक्षेपाः
- ७३-८१ कर्मणैव मोक्षः सिद्ध्यतीत्यैकभविकवादमवलम्ब्याक्षेपः


आवर्तः ८१ – मुमुक्षोः प्रायश्चित्तमप्यनावश्यकम्

अथवा – मुमुक्षुणा नित्यनैमित्तिककर्ममात्रमनुष्ठेयं, प्रायश्चित्तरूपं कर्म *१ त्यक्तुं शक्यते। तथाहि,

*१. साधारणासाधारणप्रायश्चित्तानुष्ठानेऽत्यन्तं श्रममुपलभ्य स्वमते मुमुक्षुर्न प्रविशेदिति मत्वा पूर्वपक्षी मोक्षार्थमुपायान्तरं लघुतया कल्पयति।

(1) मुमुक्षोः सञ्चितनिषिद्धकाम्यकर्माणि निष्फलानि भवन्ति। यथा वेदान्तिनां मते ज्ञानिनः सञ्चितकर्माणि नश्यन्तीत्युच्यते, तथैतन्मतेऽपि निषिद्धानि काम्यानि च वर्जयित्वा नित्यनैमित्तिकान्यनुतिष्ठतोऽस्य मुमुक्षोः सञ्चितानि सकलान्यपि कर्माणि क्षीयन्ते।

(2) *२ अथवा – सञ्चितानि काम्यनिषिद्धानि कर्माणि सकलान्यपि संभूयैकमेवान्यज्जन्म प्रयच्छेयुर्मुमुक्षोः। अतो मुमुक्षुणा वर्तमानजन्मनोऽन्यदेकमेव जन्म प्रतिपत्तव्यं भवेत्।

*२. “अवश्यमनुभोक्तव्यं कृतं कर्म शुभाशुभम्।
नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि।”
इत्यादिशास्त्रविरोधपरिहाराय पूर्वपक्षी समाधत्ते – अथवेति।

(3) *३ अथवा योगी कायव्यूहेनेव, मुमुक्षुरपि भाविजन्मन्येकस्मिन्नेव सकलसञ्चितकर्मभिर्युगपदारब्धानन्तशरीरैर्जन्मान्तरसञ्चिताशेषकर्मणां फलमनुभवितुं शक्नुयात्।

*३. अनेकपरस्परविलक्षणजन्मप्रयोजकानेककर्मणां फलमेकस्मिन् जन्मन्यसंभावितमिति शङ्कायां सदृष्टान्तमाह – अथवेति।

( 4) *४ अथवा नित्यनैमित्तिकानुष्ठानजनितक्लेश एव जन्मान्तरसञ्चितनिषिद्धकर्मणां फलं भवति। अतो न जन्मान्तरसञ्चितनिषिद्धं कर्म पुनर्जन्महेतुर्भवति।

*४. यद्यनेकजन्मार्जितसुकृतकर्मफलं सुखरूपं युगपदेकजन्मन्युपभुज्येत, तर्हि दुष्कृतकर्मफलं दुःखमपि भाविजन्मनि भोक्तव्यं भवेदिति मत्वा मुमुक्षुः स्वमते न प्रविशेदिति तत्र प्रवर्तयितुं लाघवादयं पक्ष उपन्यस्यते – अथवेति।

सञ्चितकाम्यकर्म निखिलमपि भाव्येकस्मिन्नेव जन्मनि नानाशरीरारम्भद्वारा स्वफलं सर्वं दास्यति। तज्जन्मनि मुमुक्षोः क्लेशलेशोऽपि न भवेत्, तस्य जन्मनः पुण्यफलत्वात् सुखमेव जायेत; यतो जन्मान्तरसञ्चितेन निखिलेन विहितेन कर्मणा तज्जन्म लब्धम्। सञ्चितं सर्वमपि निषिद्धं कर्म नित्यनैमित्तिकानुष्ठानजनितक्लेशेनैव प्रकृते जन्मन्येकस्मिन्नेव नश्यति। इत्थं विनैव प्रायश्चित्तं नित्यनैमित्तिककर्माणि मोक्षं प्रदास्यन्ति। तस्मात् सदा नित्यकर्माणि, निमित्ते सति नैमित्तिकानि चावश्यमनुष्ठेयान्येव। शास्त्रीयप्रसिद्ध्या त्वस्य मतस्यैकैभविकवाद *१ इति व्यपदेशः।

*१. ऐकभविकं नाम = एकमेव जन्म, कर्मैव वा, मोक्षसाधनमिति वादः = कथनम्। कर्मैव मोक्षसाधनमिति प्रतिपादकमतस्य शास्त्रे ऐकभविकवाद इति प्रसिद्धिः।