-
४०-१०८
द्वितीयतरङ्गः -- अनुबन्धानां विशेषतो निरूपणम्
- ६६-८२ प्रयोजनविषयकाक्षेपाः
- ६६-८२ प्रयोजनविषयकाक्षेपाः
आवर्तः ८२ – कर्मणैव बन्धनिवृत्तिसिद्धेरयं ग्रन्थो विफलः
यदुक्तं “अयं ग्रन्थो ज्ञानद्वारा बन्धनिवृत्तिहेतु”रिति, नायं समीचीनः सिद्धान्तः। “यद्येन जायते नान्येन, तत्तस्य फलं” इत्युच्यते। यथा रूपज्ञानं नेत्रं विना नान्येन केनचिदपि जायते; तस्माद्रूपज्ञानं नेत्रस्यैव प्रातिस्विकं फलम्। बन्धनिवृत्तिस्तु एतद्ग्रन्थजनितज्ञानमन्तरा कर्मणैव जायेतेति नास्य ग्रन्थस्य प्रयोजनम्। एवञ्चास्य ग्रन्थस्य प्रयोजनं न सिद्ध्यतीति नास्यारम्भो युक्तः।