ॐ गुरुपरमात्मने नमः

- ४०-१०८ द्वितीयतरङ्गः -- अनुबन्धानां विशेषतो निरूपणम्
- ६६-८२ प्रयोजनविषयकाक्षेपाः
- ६६-७२ न ज्ञानेन बन्धनिवृत्तिरित्याक्षेपः


आवर्तः ७१ – पञ्चमसामग्र्यभावः

बन्धाध्यासे अधिष्ठानविशेषांशाज्ञानमपि न संभवति, बन्धाधिष्ठानब्रह्मणः स्वयंप्रकाशज्ञानस्वरूपत्वात्। “यत्साक्षादपरोक्षात् ब्रह्म” (बृ. 3-4-1, 3-5 1) इति श्रुतेः। एतादृशे ब्रह्मणि, आदित्ये अन्धकारवदज्ञानं न कथञ्चन युज्येत। यथा प्रकाशात्मकसवितुरन्धकारस्य च विरोधोऽपरिहार्यः एवं स्वप्रकाशचैतन्यात्मकब्रह्मणस्तमोरूपाज्ञानस्य च परस्परविरोधोऽस्ति। तस्मात् स्वयंप्रकाशरूपत्वादधिष्ठानस्य तद्विशेषांशाज्ञानासंभव एव।