ॐ गुरुपरमात्मने नमः

- ४०-१०८ द्वितीयतरङ्गः -- अनुबन्धानां विशेषतो निरूपणम्
- ६६-८२ प्रयोजनविषयकाक्षेपाः
- ६६-७२ न ज्ञानेन बन्धनिवृत्तिरित्याक्षेपः


आवर्तः ७० – चतुर्थसामग्र्यभावः

बन्धात्मनोरन्योन्यं सादृश्यरूपप्रमेयदोषोऽपि नास्ति, तमःप्रकाशवद्विरुद्धस्वरूपत्वात्तयोः। आत्मा = प्रत्यक् आन्तरश्च ; बन्धः=अनात्मा पराक् बाह्यश्च। आत्मा विषयी = प्रकाशकः, बन्धस्तु विषयः = प्रकाश्यो जडश्च। प्रतीचि पराचः पराचि प्रतीचश्चाध्यासो न संभवति। पुत्राद्यपेक्षया स्वदेहः प्रत्यक्, स्वदेहे पुत्रादीनां पुत्रादौ स्वदेहस्य चाध्यासो न भवति। तथा विषये विषयिणः विषयिणि विषयस्य चाध्यासो न भवति। विषयात्मकघटादिषु दीपादिविषयिणां, दीपादौ वा घटादीनां नाध्यासः। एवमेव सादृश्याभावात् प्रतीचि विषयिण्यात्मनि पराचो विषयस्यानात्मनो बन्धस्य नैवाध्यासः संभवति। प्रत्यक्पराचोर्यथा परस्परं विरोधः, एवं विषयविषयिणोरपि। तस्मादीदृशयोरात्मानात्मनोः सादृश्याभावादात्मनि बन्धाध्यासो न शक्यते वर्णयितुम्।