ॐ गुरुपरमात्मने नमः

- ४०-१०८ द्वितीयतरङ्गः -- अनुबन्धानां विशेषतो निरूपणम्
- ६६-८२ प्रयोजनविषयकाक्षेपाः
- ६६-७२ न ज्ञानेन बन्धनिवृत्तिरित्याक्षेपः


आवर्तः ६९ – द्वितीयतृतीयसामग्र्यभावः

प्रमातृप्रमाणदोषावपि बन्धाध्यासकारणभावं न भजतः। प्रमात्रादिनिखिलप्रपञ्चो ऽध्यासरूप इति, स चाध्यास एव बन्ध इति च *४ वेदान्तसिद्धान्तः। तथा च बन्धाध्यासात् पूर्वं प्रमातृप्रमाणस्वरूपस्यैवासिद्धेस्तद्गतदोषाणां सुतरामसिद्धिः। तस्मात् प्रमातृप्रमाणदोषासिद्धेर्बन्धाध्यासो न सिद्ध्यति।

(४) चैतन्यरूपब्रह्मणोऽन्यस्याज्ञानतत्कार्यभूतस्थूलसूक्ष्म प्रपञ्चस्य द्वैतमात्रस्य सर्वस्यापि दृश्यस्य चैतन्ये ब्रह्मण्यध्यस्ततया ऽन्तःकरणात्मकप्रमातुरिन्द्रियात्मकप्रमाणस्य च दृश्यान्तर्गतत्वेन प्रमातृप्रमाणे अप्यध्यस्ते एव। तस्मात् प्रपञ्चाध्यासात् पूर्वं प्रमात्रादयः प्रपश्चाध्यासकारणत्वेन न सिद्ध्यन्तीत्युपनिषत्सिद्धान्तः।