-
४०-१०८
द्वितीयतरङ्गः -- अनुबन्धानां विशेषतो निरूपणम्
- ६६-८२ प्रयोजनविषयकाक्षेपाः
- ६६-७२ न ज्ञानेन बन्धनिवृत्तिरित्याक्षेपः
- ६६-८२ प्रयोजनविषयकाक्षेपाः
- ६६-७२ न ज्ञानेन बन्धनिवृत्तिरित्याक्षेपः
आवर्तः ६८ – बन्धाध्यासे प्रथमसामग्र्यभावः
बन्धस्याध्यस्तत्वसाधको नैकोऽपि हेतुः संभवति। तथा हि, यद्यन्यत्र कदाचित् सत्यबन्धोऽनुभूतः स्यात्, तदा तत्प्रमानुभवजन्यसंस्कारवशादात्मनि बन्धाध्यासो जायेत, न तु तदस्ति। वेदान्तसिद्धान्ते “आत्मनोऽन्यस्य सर्वस्यापि मिथ्यात्वेन सत्यस्य वस्तुनो ऽणुमात्रस्याप्यभावनिश्चयात्”। तस्मात् सत्यबन्धानुभवजनितसंस्काराभावादात्मनि बन्धाध्यासो न युज्यते।