ॐ गुरुपरमात्मने नमः

- ४०-१०८ द्वितीयतरङ्गः -- अनुबन्धानां विशेषतो निरूपणम्
- ६६-८२ प्रयोजनविषयकाक्षेपाः
- ६६-७२ न ज्ञानेन बन्धनिवृत्तिरित्याक्षेपः


आवर्तः ६७ – अध्याससामग्र्याः

सामग्री नाम = कारणकलापः। यथा पाकस्य चुल्ल्युदककाष्ठादिः।

(1) सत्यवस्त्वनुभवजन्यसंस्कारः, (2) *३ प्रमातृदोषाः, (3) *४ प्रमाणदोषाः, (4) प्रेमेयदोषाः, (5) अधिष्ठानविशेषाज्ञानं तत्सामान्यज्ञानं चेत्येता अध्याससामग्र्यः।

*३. प्रमाता = जीवः।

*४. प्रमाणम् = इन्द्रियादिकरणम्।

*५. प्रमेयः विषयः।

विना त्वाभिरध्यास एव न सिद्ध्येत्। शुक्तिकायां रजताध्यासः, रज्ज्वां सर्पाध्यासश्च जायते। स च यस्य परमार्थसत्यरजतसर्पाद्यनुभवाहितसंस्कारो वर्तते तस्यैव जायते, तद्रहितस्य तु न; इत्यतः सत्यवस्तुप्रमाहितसंस्कारोऽध्यासहेतुः। शुक्तिकायां सर्पाध्यासस्य रज्जौ रजताध्यासस्य चानुदयात् प्रमेयगत*१सादृश्यदोषोप्यध्यासहेतुर्भवति। एवं प्रमातृगतलोभभयादिदोषाः, चक्षुरादिप्रमाणगतकाचकामलादिदोषाश्चाध्यासहेतवः। शुक्तिकायां रजताध्याससमये ‘इयम्’ इत्यधिष्ठानसामान्यज्ञाने सति ‘इयं शुक्तिः’ इति विशेषज्ञानेऽसति चाध्यासो भवति। ‘शुक्तिः’ इति विशेषज्ञाने सति वा ‘इयम्’ इति सामान्यज्ञानेऽसति वा अध्यासो नैव जायते। तस्मादधिष्ठानसामान्यज्ञानं तद्विशेषाज्ञानं चाध्यासहेतुः। पूर्वोक्तसामग्रीणां पञ्चानामन्यतमाभावे नाध्यासः सिद्ध्यति। घटोत्पत्तौ कुलालदण्डचक्रमृत्सलिलादयः सामग्र्यः। यथैतेषामन्यतमाभावे नैवोत्पद्यते घटस्तथाऽध्याससामग्रीणामन्यतमाभावेऽप्यध्यासो नोत्पद्येत। तस्मात् पूर्वोक्तानां पञ्चानां सामग्रीणामावश्यकत्वात्तासां सर्वासां सत्व एवाध्यासो जायेत, नान्यथा।

*१. रज्जौ, सर्पवत्कौटिल्यदीर्घत्वादि, शुक्तौ च रजतवच्चाकचक्यादि च प्रमेय गतसादृश्यदोषः।

*२. यो भ्रान्तिदशायमपि प्रतिभाति, यदभावे भ्रान्तिरेव न स्यात् स एव सामान्यांशः आधार इति चोच्यते।

*३. यो भ्रान्तिदशायां न भाति, यद्भाने भ्रान्तिर्निःशेषं नश्येत्, स एव विशेषांशोऽधिष्ठानं इति चोच्यते।