- ४०-१०८ प्रयोजनविषयकाक्षेपाः
- ४०-१०८ न ज्ञानेन बन्धनिवृत्तिरित्याक्षेपः
आवर्तः ६६ – बन्धः सत्य इत्याक्षेपः
अहङ्कारादिदेहान्तानात्मभूतदृश्यवस्तुजातं सर्वमपि बन्ध इत्युच्यते। स बन्धो यद्यध्यस्तः स्यात्तर्हि ज्ञानेन निवर्त्यत। अनध्यस्तश्चैन्नैव ज्ञानेन निवर्त्येत। ज्ञानस्य ह्येषः स्वभावः – यत् स्वविषयीभूतवस्तुनिष्ठाज्ञानतत्कार्याध्यासनिवर्तकत्वमिति। यथा रज्जुसाक्षात्कारः स्वविषयीभूतरज्ज्वध्यस्तसर्पादीन् रज्ज्वज्ञानञ्च निवर्तयति। भ्रमज्ञानविषयीभूतमिथ्यावस्तु तद्विषयकभ्रान्तिज्ञानं च *१ अध्यास इत्युच्यते। यत्र यद्वस्तु मिथ्यात्वमन्तरा परमार्थतो वर्तते, नास्ति तस्य ज्ञानान्निवृत्तिः। एवमात्मन्यप्यहङ्कारादिबन्धो यद्यध्यस्तः स्यात् तर्हि ज्ञानेन निवर्त्येत। आत्मनि मिथ्याभूतबन्धाध्याससामग्री नास्ति, तथाप्यात्मनि प्रतीयते च बन्धः। तस्माद्बन्धः सत्य एव भवितुमर्हति। सत्यत्वादेव ज्ञानेन बन्धनिवृत्त्याशा निरर्थिकैव।
*१. अध्यासो नामातस्मिंस्तद्बुद्धिः – अतस्मिन् = कालत्रयेऽपि सर्पाभाववति रज्ज्वादौ तद्बुद्धिः = प्रातिभासिकसर्पादिबुद्धिः। तादृशसर्पादि तज्ज्ञानं चाध्यास इत्युच्यते। अयञ्चाध्यासो द्विविधः – अर्थाध्यासो ज्ञानाध्यासश्चेति। भ्रान्तिज्ञानविषयीभूतमिथ्यासर्पादिः अर्थाध्यासः। तादृशमिथ्यार्थज्ञानं ज्ञानाध्यासः। इदञ्च ज्ञानं परोक्षत्वापरोक्षत्वधर्मभेदाद्विविधं। तच्च विषयाधीनं। ज्ञानाध्यास एव ‘मिथ्याज्ञानं’ ‘भ्रान्तिः’ इति चोच्यते। अर्थाध्यासोऽपि स्वरूपाध्यासः संसर्गाध्यासभेदेन द्विविधः। अज्ञानतत्कार्यादीनां चेतने आत्मनि स्वरूपाध्यासः। सच्चिदानन्दरूपस्यात्मनो ऽज्ञानतत्कार्यादौ संसर्गाध्यासमात्रम्।