ॐ गुरुपरमात्मने नमः

- ४०-१०८ द्वितीयतरङ्गः -- अनुबन्धानां विशेषतो निरूपणम्
- ६१-६५ विषयविषयकाक्षेपाणां समाधानि


आवर्तः ६५ – सुखदुःखादयो वृत्त्यारूढसाक्षिविषयाः

सुखदुःखादयोऽन्तःकरणवृत्तेर्न विषयीभवन्तीति यदुक्तं, नैतदस्ति। यद्यपि सुखदुःखादयः साक्षिमास्याः, ते च साक्षिणो नाना; तथापि न केवलः साक्षी सुखदुःखादीन् भासयति, किन्तु वृत्तिद्वारैव। तथा हि यदाऽन्तःकरणस्य सुखदुःखाद्याकारः परिणामो भवति, तदैवान्तःकरणस्यान्यापि वृत्तिः सुखदुःखादिविषयकज्ञानाकारा भवति। तादृशज्ञानरूपवृत्त्यारूढः साक्षी सुखदुःस्वादीन् प्रकाशयति। अनया रीत्या सुखदुःखादयः साक्षिणो विषयीभवन्ति। वृत्तिमन्तरा तु न केवलसाक्षिणो विषयीभवन्ति; इति हि प्राचीग्रन्थकारा आहुः। अत्रैतदाकूतम् – केवलेप्याकाशे ‘घटाकाश’ इति नाम जलाहरणादिकं कार्यं च घटरूपोपाधिदृष्टिमनु प्रतीयते, न तु तामुपाधिदृष्टिं विना। उपाधिदृष्ट्यभावे त्वाकाश एव केवलः प्रतीयते। अतो घटाकाशोऽपि महाकाश एव, विकारस्य वाचारम्भणमात्रत्वेन मिथ्यात्वात्। एवमेव साक्षाच्छुद्धचैतन्यमात्रं *१ ‘सांक्षी’ इति नाम सुखदुःखादिधर्माश्रयान्तःकरणप्रकाशकत्वरूपकार्यं चान्तःकरणरूपोपाषिदृष्टिमनुसृत्यैव प्रतीयते, न तु तां विना। उपाधिष्ट्यभावे तु चिन्मात्रमेव केवलं भासते। अतः साक्ष्यपि ब्रह्मैव। ईदृगभिप्रायेणैवोक्तं ‘साक्षी एक एव’ इति, यत उपाधिप्रयुक्तभेददृष्टिमन्तरा साक्षिणोऽनेकत्वपरिच्छिनत्वादिकं न स्वतोऽवभासते। अयमेव साक्षी जीववाचकत्वंपदलक्ष्यार्थः। उपरिष्टादेतत्स्पष्टीक्रियते। इत्थं जीवब्रह्मैक्यमस्य ग्रन्थस्य विषय इति युक्तमेवोक्तम्।

*१ यथा स्वतः शुभ्रे पत्रे मषीरेखाभिरक्षराणीव भासन्ते। वस्तुतस्त्वक्षराणां पत्रस्य च शब्दतः केवल भेदः। मषीरूपोपाधिदृष्टिमन्तरा पृथगक्षराणामनुपलम्भात्, शुद्धपत्रमात्रस्य विशिष्टत्त्वाच्च। तथाऽन्तःकरणरूपोपाधिजनितभेददृष्टिमन्तरा साक्षीति नामापि न सिद्ध्यति, शुद्धचिन्मात्रमेवास्ते।