-
४०-१०८
द्वितीयतरङ्गः -- अनुबन्धानां विशेषतो निरूपणम्
- ६१-६५ विषयविषयकाक्षेपाणां समाधानि
- ६१-६५ विषयविषयकाक्षेपाणां समाधानि
आवर्तः ६४ – साक्षिणो नानात्वेऽप्येकेन ब्रह्मणैक्यं संभवति
यदुक्तं – “साक्षिणोऽनेकत्वात्, एकत्वाच्च ब्रह्मणः, अनेकसाक्षिणामेकेन ब्रह्मणैक्यं न युज्यते, यदि युज्यते तर्हि ब्रह्मण इव साक्षिणोऽपि सर्वशरीरवर्तित्वव्यापकत्वैकत्वसिद्ध्या युगपत्सर्वशरीरेषु सुखदुःखसाक्षात्कारप्रसङ्गः” इति, तन्न।
यतः साक्षी द्विविधः, ईश्वरसाक्षी जीवसाक्षी चेति। तत्राद्य एक एव। द्वितीयोऽनेकः परिच्छिन्नश्च, तथापि व्यापकब्रह्मणो न भिन्नः। यथा घटाकाशो नाना परिच्छिन्नोऽपि महाकाशादनन्यतया महाकाशस्वरूप एव भवति, तथा जीवसाक्षी नाना परिच्छिन्नोऽपि तत्त्वतो ब्रह्माभिन्नतया ब्रह्मैव भवति।