ॐ गुरुपरमात्मने नमः

- ४०-१०८ द्वितीयतरङ्गः -- अनुबन्धानां विशेषतो निरूपणम्
- ६१-६५ विषयविषयकाक्षेपाणां समाधानि


आवर्तः ६३ – ऐक्योपपत्तिः

रागद्वेषादयः क्लेशाः संसारिण्येव वर्तन्ते, न तु साक्षिणि। तत्रापि संसारिणो विशेषणीभूतान्तःकरणमेवाश्रितास्ते, न तु विशेष्यभूतचैतन्यम्। संसारिणो विशेष्यभूतचैतन्यमेव साक्षी इति व्यवह्नियते। एकमेव चैतन्यमन्तःकरणविशिष्टञ्चेत् संसारी इत्युच्यते, तद्विरहितं चेत् साक्षी इति च। तस्मात् साक्षिस्वरूपस्य, संसारिणो विशेष्यस्वरूपस्य च शब्दभेदं विना न कोप्यर्थतो भेदः। यदि विशेष्यस्वरूपेऽपि क्लेशा अङ्गीक्रियेरन् तर्हि साक्षिणोऽपि तेऽङ्गीकृताः स्युः। न चैतदिष्टम्।

“साक्षी चेता केवलो निर्गुणश्च” (श्व 6-11),
“न लिप्यते लोकदुःखेन बाह्यः” (क. 2-2-11),
“असङ्गो ह्ययं पुरुषः” (क. 4.3.15-16),
“स न साधुना कर्मणा भूयान्नो एवासाधुना कनीयान्” (बृ. 4-4-22),
“न वर्धते कर्मणा नो कनीयान्” (बृ. 4-4-23)

इत्यादिश्रुतिभ्यः साक्षिणो न क्लेशगन्धोप्यस्तीति वेदान्तसिद्धान्तात्। अतः संसारिणो विशेष्यस्वरूपे न क्लेशाः सन्ति, किन्तु विशेषणीभूतान्तःकरणमात्रे।

“कामः सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्हीर्धीर्भीरित्येतत्सर्वं मन एव” (बृ. 1-5-3.),
“कामा येऽस्य हृदि श्रिताः” (बृ. 4-4-7) (क. 2-3-14),
“अकामं रूपं शोकान्तरम्” (बृ. 4-3-21.),
“तीर्णो हि तदा सर्वाञ्च्छोकान् हृदयस्य भवति” (बृ. 4-3-22)
इत्यादिश्रुतिभ्यः,

“रागेच्छासुखदुःखादि बुद्धौ सत्यां प्रवर्तते।
सुषुप्तौ नास्ति तन्नाशे तस्माद्बुद्धेस्तु नात्मनः॥” (अ.बो.23)

इति वृद्धवचनाच्च रागादयो बुद्धिधर्मा एव, न तु जीवात्मधर्माः इत्युक्तम्।

तथा चान्तःकरणविशिष्टस्य जीवस्य ब्रह्मणा सहैक्यासंभवेऽप्यन्तःकरणोपहितसाक्षिणस्तत्संभवत्येव।