-
४०-१०८
द्वितीयतरङ्गः -- अनुबन्धानां विशेषतो निरूपणम्
- ६१-६५ विषयविषयकाक्षेपाणां समाधानि
- ६१-६५ विषयविषयकाक्षेपाणां समाधानि
आवर्तः ६२ – जीवस्वरूपम्
*१ कार्यान्वयित्वे सति विद्यमानत्वे सति व्यावर्तकं विशेषणम्। यथा ‘कुण्डली आगतः’ इत्यत्र कुण्डलं विशेषणं, स्वविशिष्टस्यैव पुरुषस्यागमनक्रियाकर्तृत्वेन बोधकत्वात्। यथा वा ‘नीलं घटमपश्यम्’ इत्यत्र नीलवर्णो विशेषणं, घटस्येव नीलवर्णस्यापि दर्शनक्रियायां कर्मत्वेनान्वयात्। तथाऽन्तःकरणमपि कर्तृत्वभोक्तृत्वविशिष्टजीवचैतन्यस्य विशेषणं, स्वावच्छिन्नचैतन्ये कर्तृत्वभोक्तृत्वव्यवहारास्पदत्वस्य बोधनात्। तस्मात् संसारिणो जीवस्यान्तःकरणं विशेषणम्। तथा चान्तःकरणं तदवच्छिन्नचैतन्यं चैकीकृत्य संसारी इति व्यपदेशः। अयश्चोत्तरत्र स्पष्टीक्रियते।
*२. स्वात्मना सहैत्र वस्तुनोऽवभासकं विशेषणं इत्युच्यते।