ॐ गुरुपरमात्मने नमः

- ४०-१०८ द्वितीयतरङ्गः -- अनुबन्धानां विशेषतो निरूपणम्

- ४०-१०८ विषयविषयकाक्षेपाणां समाधानि

आवर्तः ६१ – साक्षिस्वरूपम्

यदुक्तं – “जीवो रागद्वेषादिक्लेशविशिष्टः, तद्रहितञ्च ब्रह्म; तस्मात् तयोर्जीवब्रह्मणोरैक्यरूपो विषयो ग्रन्थस्य न सिद्ध्येत्” इति – यद्यपि तत्सत्यमेव, तथापि रागादिवियुक्तसाक्षिणो ब्रह्मणैक्यं युज्यत एव।

न च “कर्तृत्वभोक्तृत्वादिधर्मविशिष्टजीवादन्यः साक्षी वन्ध्यासूनुसमत्वान्नास्ति” इति वाच्यं, उपहितस्य साक्षित्वात्।

The ākṣepa was – “jīva is qualified by rāga, dveṣa and such kleśas. Brahma is devoid of them. Thus, the viṣaya of this grantha, i.e. aikya of jīva and brahma is not possible”.

While this is true, the aikya between the sākṣi which is devoid of rāga etc, and brahma is indeed appropriate.

You cannot then object with “a sākṣī that is different from the jīva who has dharmas like kartr̥tva, bhoktr̥tva etc would be akin to a son of a barren woman, and does not exist”, since the sākṣi underlies it (is the upahita).

कर्तृत्वभोक्तृत्वादिरूपसंसारिविशेषणानां यो विशेष्यांशः स एव साक्षी इत्युच्यते। तादृशसाक्षिनिषेधे, संसारिणो विशेष्यांशापलापे कर्तृभोक्तृस्वरूपसंसारिनिषेध एव पर्यवस्येत्।

एकस्यैव चैतन्यस्य साक्षित्वे विवक्षितेऽन्तःकरणमुपाधिर्भवति। तस्यैव कर्तृत्वभोक्तृत्वविशिष्टजीवत्वे विवक्षितेऽन्तःकरण विशेषणञ्च भवति। विशेषणेन युक्तं विशिष्टं, उपाधिना युक्तं उपहितं इति चोच्यते।

The qualified portion of the samsārī that is qualified by adjectives such as kartr̥tva, bhoktr̥tva etc is the sākṣī. If that sākṣī itself is taken away, the entirety of the samsārī that is kartā and bhoktā itself is also negated.

When we refer to the singular caitanya that is the sākṣī, the antaḥkaraṇa is the upādhi. When we refer to the jīvā which is kartā and bhoktā, the antaḥkaraṇa is the viśeṣaṇa. If the viśeṣaṇa is included, it is called viśiṣṭa. If the upādhi is included, it is called upahita.

*१ कार्यानन्वयित्वे सति विद्यमानत्वे सति व्यावर्तकः उपाधिः

यथा न्यायमते कर्णगोलकान्तर्गत आकाशः श्रोत्रेन्द्रियमित्युच्यते। तत्र कर्णगोलकं श्रोत्रस्योपाधिः, यतः कर्णगोलकं स्वावच्छिन्नमाकाशं श्रोत्रेन्द्रियत्वेन बोधयित्वा स्वयं तेनासंबद्धं भवति। तस्मात् कर्णगोलकं श्रोत्रस्योपाधिः।

एवमन्तःकरणमपि स्वोपहितं चैतन्यं साक्षित्वेन बोधयित्वा स्वयं तेनासंबद्धं वर्तते। तस्मादन्तःकरणं साक्षिण उपाधिरिति, अन्तःकरणस्थचैतन्यमात्र साक्षीति च सिद्ध्यति।

*१. यद्वस्तु स्वसमीपस्थं वस्त्वन्तरं व्यावर्तयति, अपि तु स्वयं तेन न संबध्यते, स उपाधिः इत्युच्यते।

*१. The upādhi is included in the lakṣya (kārya), is there, and excludes other things.

For example, in the nyāya mata, the ākāśa limited by the physical ears is the śrotrendriya. There, the physical ears are the upādhi for the śrotra indriya. The ears are used to point to the space in them, but are not a part of it. Thus, the ears are the upādhi for the indriya.

In the same way, the antaḥkaraṇa points to the caitanya that is the sākṣī but has no sambandha with it. Thus, the antaḥkaraṇa is the upādhi for the sākṣī. The sākṣī is the caitanya in the antaḥkaraṇa.

*१. That vastu which is there and excludes other vastus, but has no sambandha [with the lakṣya] is called upādhi.