ॐ गुरुपरमात्मने नमः

- ४०-१०८ द्वितीयतरङ्गः -- अनुबन्धानां विशेषतो निरूपणम्
- ५५-६० विषये आक्षेपाः
- ५६-६० साक्षिब्रह्मैक्यविषये आक्षेपः


आवर्तः ६० – अनेकसाक्षिणामेकेन ब्रह्मणैक्यासंभवः

एवं चान्तःकरणतद्धर्माणां केवलसाक्षिवेद्यत्वमते साक्षिण एकत्वाङ्गीकारो न युज्यत एव। पूर्वमेव प्रदर्शितरीत्या एकेन साक्षिणा यदा एकान्तःकरणस्थसुखदुःखादयो विषयी क्रियन्ते, तदा सर्वान्तःकरणगतसुखदुःखादेरपि विषयीकरणापत्तेरनिवार्यत्वात्। लोके तथाऽननुभवादनेके साक्षिण इत्येवाभ्युपगन्तव्यम्। साक्षिण अनेकत्वपक्षे यथा न दोषस्तथोक्तमेव प्राक्। तथा चानेकसाक्षिणामेकेन ब्रह्मणैक्यं न युज्यत एव।