ॐ गुरुपरमात्मने नमः

- ४०-१०८ द्वितीयतरङ्गः -- अनुबन्धानां विशेषतो निरूपणम्
- ५५-६० विषये आक्षेपाः
- ५६-६० साक्षिब्रह्मैक्यविषये आक्षेपः


आवर्तः ५९ – अन्तःकरणधर्माः नान्तःकरणवृत्तेर्विषयाः

एवमेवान्तःकरणवृत्तिः स्वाश्रयान्तःकरणाश्रितरागद्वेषसुखदुःखादिधर्मानपि न विषयीकर्तुं शक्नोति। यद्यन्तःकरणवृत्तिः स्वाश्रयभूतमन्तःकरणं विषयीकुर्यात्तर्हि तदाश्रिततद्धर्मभूतान् सुखदुःखादीनपि विषयीकुर्यात्। यतोऽन्तःकरणं विषयीकुर्वाणा वृत्तिर्नान्तःकरणाभिमुखा भवति, तस्मादन्तःकरणवत् तद्धर्माश्च नान्तःकरणवृत्तेर्विषयीभवन्ति।

अस्ति चायमत्र नियमः – वृत्तिर्हि स्वाश्रयात् किञ्चिद्विप्रकृष्टमेव वस्तु विषयीकुर्यात्, नातीव विप्रकृष्टं नाप्यत्यन्तं सन्निकृष्टं वेति। यथा नयनवृत्तिः स्वाश्रयसमीपस्थमञ्जनादिकं न विषयीकरोत्यत्यन्तं सन्निकृष्टत्वात् तथाऽन्तःकरणवृत्तिरपि स्वाश्रयान्तःकरणगतान् सुखदुःखादीनत्यन्तसन्निहितान् धर्मान् न विषयीकुर्यात्। इत्थमन्तःकरणं तद्धर्माश्च नेन्द्रियाणामन्तःकरणवृत्तेश्च विषयीभवन्ति, किन्तु केवलसाक्षिणा ते विषयीक्रियन्ते इति हि वेदान्तसिद्धान्तः।