- ५५-६० विषये आक्षेपाः
- ५६-६० साक्षिब्रह्मैक्यविषये आक्षेपः
आवर्तः ५८ – अन्तःकरणस्य स्ववृत्त्यविषयत्वम्
किञ्चान्तःकरणं न स्ववृत्तेरपि गोचरीभवति। अन्तःकरणस्य वृत्त्याश्रयत्वान्न तत् स्वाश्रितवृत्तेर्विषयीभवितुमर्हति। यथा अग्न्याश्रिता दाहशक्तिः स्वाश्रयातिरिक्तेन्धनाद्येव विषयीकरोति, तथाऽन्तःकरणवृत्तिरपि स्वाश्रायन्तःकरणव्यतिरिक्तमेव वस्तु विषयीकुर्यात्। तस्मादन्तःकरणं नैव *१ स्ववृत्तेर्विषेयीभवति।
*१. ननु अन्धकारावृतं गृहं यथाऽन्धकारस्याश्रयो विषयश्च भवति, यथा वा चैतन्यमेकमेव स्वाज्ञानस्याश्रयो विषयश्च भवति एवमेवान्तःकरणमपि स्ववृत्तेराश्रयो विषयश्च कुतो न स्यादिति चेन्न।
गृहान्धकारवत् यत्राश्रयाश्रयिणौ भिन्नौ भवतस्तत्रैकस्यैवाश्रयत्वं विषयत्वं च स्यात्। यत्र तु वह्नितदाश्रितदाहशक्तिवदाश्रयाश्रयिणौ न भिन्नौ भवतः तत्रैकमेव वस्त्वाश्रयो विषयश्च न स्यात्। प्रकृते चान्तःकरणतद्वृत्त्योश्च भेदाभावान्नान्तःकरणं स्ववृत्तेर्विषयीभवति। किन्त्वाश्रयमात्रं भवति, उपादानकारणत्वादन्तःकरणस्य स्ववृत्तिं प्रति।