ॐ गुरुपरमात्मने नमः

- ४०-१०८ द्वितीयतरङ्गः -- अनुबन्धानां विशेषतो निरूपणम्
- ५५-६० विषये आक्षेपाः
- ५६-६० साक्षिब्रह्मैक्यविषये आक्षेपः


आवर्तः ५७ – अन्तःकरणस्येन्द्रियाविषयत्वम्

इन्द्रियाणि पञ्चीकृतभूततत्कार्याण्येव विषयीकुर्युः। अत्राप्यस्ति वक्ष्यमाणरीत्या भेदः। चक्षुरिन्द्रियं नीलपीतादिवर्णयुक्तघटादिनिष्ठनैल्यादिरूपं तदाधारभूतघटादि च विषयीकरोति। त्वगिन्द्रियमपि स्पर्शं तदाश्रयं चोभयं विषयीकरोति। जिह्वाघ्राणश्रवणानि तु त्रीणीन्द्रियाणि वस्त्वाश्रितरसगन्धशब्दानेव क्रमाद्विषयीकुर्वन्ति *१ न तु तदाश्रयद्रव्यम्। अत एवैतत्त्रयेणापीन्द्रियेणान्तरमन्तःकरणं न विषयीक्रियते। तथैव न चक्षुषा त्वचा चान्तःकरणं विषयीक्रियते। यतो बाह्यपञ्चीकृतभूतानि, तत्कार्यं रूपाश्रयं स्पर्शाश्रियं वा वस्तु, चक्षुषा त्वचा च विषयीक्रियन्ते। अन्तःकरणं त्वपञ्चीकृतभूतकार्यत्वात् नेत्रत्वचोर्न विषयीभवति। अत एवापञ्चीकृतभूतकार्यं नेत्रेन्द्रियमपि नेत्रेन्द्रियेण न विषयीक्रियते। बाह्यवस्तून्येव सर्वेन्द्रियाणां विषयीभवन्ति। इन्द्रियापेक्षया आन्तरत्वादन्तःकरणं नेन्द्रियाणां विषयीभवति।

तथा हि – रसाद्याश्रयद्रव्यं चक्षुषो वा त्वचो वा विषयीभवति, न तु जिह्वादेः। तथा हि माधुर्यास्वादने जिह्वया माधुर्यादिगुण एव गृह्यते, न तदाश्रयद्रव्यम्। तच्च त्वगिन्द्रियेणैव गृह्यते।