ॐ गुरुपरमात्मने नमः

- ४०-१०८ द्वितीयतरङ्गः -- अनुबन्धानां विशेषतो निरूपणम्
- ५५-६० विषये आक्षेपाः

- ५५-६० साक्षिब्रह्मैक्यविषये आक्षेपः

आवर्तः ५६ – जीवातिरिक्तसाक्षी नास्ति। सत्त्वेऽपि साक्षी नानेति शङ्का

यदुक्तं “सुखदुःखादयोऽन्तःकरणधर्माः। तच्चान्तःकरणमनेकम्। तस्मादेकोपाधिस्थसुखदुःखादयो धर्माः उपाध्यन्तरसंबन्धिनो न भवन्ति। साक्षी तु सर्वसुखदुःखादिसाक्ष्यधर्मासंबद्ध एक एव। तस्य च ब्रह्मणैक्यं वक्तुं शक्यत एव” इति।

तन्न। कर्तृत्वभोक्तृत्वादिधर्मविशिष्टजीवातिरिक्तसाक्षिसत्त्वे प्रमाणाभावात्। साक्ष्यङ्गीकारपक्षेऽपि स एक इत्यभ्युपगन्तुं न शक्यते। किन्त्वनेके साक्षिण इत्येव युक्तम्। तथा हि, अन्तःकरणं तद्धर्मसुखदुःखादयश्च नान्तःकरणेन न वेन्द्रियेण विषयीक्रियन्ते, किन्तु साक्षिणैवेति वेदान्तसिद्धान्तः। साक्षिणश्चैकत्वे यदा एकान्तःकरणस्थसुखदुःखादयः साक्षिणा विषयीक्रियन्ते तदा सर्वान्तःकरणगतसुखदुःखादयोऽपि विषयीक्रियेरन्। तथाऽनुभवाभावादेवानेके साक्षिणः इत्यभ्युपगन्तव्यम्। न चास्त्यस्मिन् पक्षे कोऽपि दोषः। यस्य हि साक्षिणो यदन्तःकरणमुपाधिः तदन्तःकरणगता एव धर्मास्तेन साक्षिणा विषयीक्रियेरन्, नान्योपाधिगताः। एवं च साक्षिणोऽनेकत्वात् न तेषामेकेन ब्रह्मणैक्यं युज्येत।