- ४०-१०८ विषये आक्षेपाः
आवर्तः ५५ – जीवब्रह्मणोरैक्यरूपविषये आक्षेपः
यत्तूक्तं जीवब्रह्मणोरैक्यमेवास्य ग्रन्थस्य विषय इति, तन्नोपपद्यते; तयोः स्वभावभेदात्। तथा हि ब्रह्म तु *१२३४५ अविद्याऽस्मितारागद्वेषाभिनिवेशात्मकपञ्चक्लेशशून्यं व्यापकमेकं *६ सजातीयभेदरहितं च; ब्रह्मणः सजातीयब्रह्मान्तराभावात्। जीवस्तु निखिलक्लेशभाक् *७ परिच्छि न्नोऽनेकश्च। यावन्ति शरीराणि तावन्तो जीवाः। सर्वशरीरेषु जीवस्यैकत्वाभ्युपगमे *८ त्वेकशरीरे जायमानसुखदुःखादयः सर्वशरीरेषु जायेरन्। न तु तथाऽस्ति।
*१. विचारे क्रियमाणे स्वरूपसत्ताभावाद्या न विद्यते सा अविद्या। सा द्विप्रकारा मूलाविद्या तूलाविद्येति च। शुद्धचिन्मात्रावारिका मूलाविद्या, घटाद्युपहितचैतन्यावारिका तूलाविद्या। मूलाविद्या तु कार्यकारणभेदेन द्विविधा। आवरणविक्षेपशक्तिसहिताऽनादिभावरूपा कारणाविद्या। वस्तुनोऽन्यथाप्रतीतिरेव कार्याविद्या। कार्याविद्या चतुर्विधा – (१) अनित्यस्वर्गादिलोकेषु तत्रत्यविषयेषु च नित्यताबुद्धिरूपा प्रथमा। (२) अशुद्धशरीरस्त्रीपुत्राद्यालिङ्गनचुम्बनादि निकृष्टकार्येषु शुचित्वबुद्धिरूपा द्वितीया। (३) दुःखात्मकधनादिषु भोगसाधनेषु सुखत्वबुद्धिरूपा तृतीया। (४) अनात्मदेहादिषु आत्मत्वभ्रमरूपा चतुर्थी। पञ्चक्लेशान्तर्गताविद्याशब्देनेयमेव कार्याविद्या गृह्यते।
*२. बुद्ध्यात्मनोरविवेकेनाभेदधीः अस्मिता। इयमेव सामान्याहङ्कार इत्युच्यते।
*३. प्राचीनविषयानुभवजन्यसंस्कारवशादनुकूल विषयकभोगेच्छा रागः।
*४. प्रतिकूलविषयकहानेच्छा द्वेषः।
*५. मरणभयाच्छरीरसंरक्षणायाऽऽग्रहोऽभिनिवेशः।
*६. ब्रह्म हि सजातीयविजातीयस्वगतभेदशून्यम्। तथा हि सजातीयानां परस्परं भेदः सजातीयभेदः, यथा ब्राह्मणादीनामन्योन्यभेदः। स्वभिन्नजातीयवस्त्वन्तरात् स्वस्य भेदो विजातीयभेदः, यथा ब्राह्मणक्षत्रिययोरन्योन्यभेदः। अवयविनः स्वावयवाद्भेदः स्वगतभेदः, यथा शरीरस्य करचरणादिभ्यः, वृक्षस्य शाखादिभ्यश्च भेदः।
“सर्वं खल्विदं ब्रह्म” (छाः3.14.1) इति सर्वस्य द्वैतस्य ब्रह्ममात्रत्वोक्त्या ब्रह्मान्तराभावाश्च ब्रह्म सजातीयभेदशून्यम्। ब्रह्मान्तराभावश्च “एकमेवाद्वितीयम्” (छा. 6.2.1) इति श्रुत्या ‘एक’शब्देनोच्यते।
ब्रह्मरूपप्रत्यक्चैतन्याद्विलक्षणजडदृश्यप्रपञ्चो विजातीयः। स चेत् सत्यः स्यात् ब्रह्मापि तदा विजातीयभेदसहितं स्यात्। न तु प्रपञ्चः सत्यः। रज्ज्वारोपितसर्पवन्मिथ्यैव। यन्मिथ्या न तदधिष्ठानादतिरिच्यते। तस्मात् ब्रह्म विजातीयभेदशून्यं मिति ‘एव’कारेणोच्यते।
ब्रह्म निरवयवम्। सच्चिदानन्दादयस्तु ब्रह्मणः स्वरूपलक्षणत्वादसाधारणधर्माः, न त्ववयवाः। पुष्पादिगतरूपरसगन्धस्पर्शादिगुणा यथा पुष्पादिस्वरूपभूतास्तथा सच्चिदानन्दादयो धर्माः ब्रह्मस्वरूपभूता एव न ततोऽतिरिक्ताः। तस्मात् ब्रह्म स्वगतभेदरहितः चेति ‘अद्वितीय’पदेनोच्यते।
*७. भिन्नः।
*८. जीवब्रह्मैक्यविषये आक्षेपसमाधानानि
आक्षेपः – सर्वशरीरेषु यद्येक एवात्मा स्यात् तदा जीवात्मपरमात्मैक्यमपि स्यात्। न तु तथाऽस्ति। अनेकत्वादात्मनः।
समाधिः – आत्मनोऽनेकत्वे न किञ्चिदपि प्रमाणमस्ति। अज्ञजनप्रसिद्धात्मभेदविषयकैन्द्रियकप्रत्यक्षं तु नात्मभेदायत्तं किन्तूपाधिभूतशरीरभेदनिबन्धनम्। “नावेदविन्मनुते तं बृहन्तम्”, “तं त्वौपनिषदं पुरुषं पृच्छामि” (बृ. 3.9.26) इत्यादिश्रुतिभ्यः वेदेतरप्रमाणानवगम्यत्वादात्मनः। “एको देवः सर्वभूतेषु गूढः” (श्वे. 6.11) इत्यादिश्रुतिभिः सर्वशरीरेषु ब्रह्मादिस्तम्बान्तेषूपलभ्यमान आत्मा एक एव। अनेकघटेषूपलभ्यमानोप्याकाशो यथा एक एव तथा शरीरभेदेष्वप्यात्मा एक एव। “अग्निर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव। एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च।” ( क. 2.2.9) इत्यादिश्रुतिभ्यः। तस्मात् जीवब्रह्मैक्यं युज्यते।
आक्षेपः – आत्मनोऽनेकत्वे न प्रमाणाभावः, प्रत्यक्षाद्यनेकप्रमाणसत्वात्। तथा हि –
(1) प्रत्यक्षप्रमाणम् – ‘ब्राह्मणोऽहम्’, ‘क्षत्रियोऽहम्’ इत्यहङ्कारपूर्वकं प्रतिप्राणिशरीरमात्मभेदः प्रत्यक्ष एव; अहङ्कारभेदस्यात्मभेदनियामकत्वात्। सर्वदेहेष्वात्मन एकत्वे ‘त्वं’ ‘अहं’ ‘अयं’ इत्यादिभेदव्यवहारो न स्यात्। तस्मादात्मनानात्वं प्रत्यक्ष सिद्धम्।
(2) अर्थापत्तिप्रमाणम् – आत्मनो नानात्वाभावे ‘त्वं’ ‘अहं’ ‘अयं’ इत्यादिभेदव्यवहारो न स्यात्। तस्मात् भेदव्यवहारसिद्ध्यन्यथानुपपत्त्या आत्मभेदोऽङ्गीकार्य इत्यर्थापत्तिरपि तत्र मानम्।
(3) अनुमानप्रमाणम् – विमत आत्मा प्रतिशरीरं भिन्नः, प्रतिशरीरं ‘त्वं’ ‘अहं’ ‘अयं’ इति व्यवहारभेदात्, तत्तच्छरीररूपव्यक्तिभेदाच्च; घटशरावादिवत्। इत्यनुमानप्रमाणमपि।
(4) श्रुतिपुराणादिप्रमाणम् – श्रुतिपुराणादिषु देवदानवयक्षराक्षसगन्धर्वकिन्नरकिंपुरुषमानवादिभेदवाददर्शनादात्मनानात्वमेव सिद्ध्यति।
(5) युक्तिः – यथात्मा सर्वशरीरेष्वेकोऽभ्युपगम्येत, तदैकस्य सुखदुःखादिना सर्वेषां तदुपलब्धिसाङ्कर्यं स्यात्। तथैकस्य ज्ञानातिशयेन सर्वे ज्ञानिनः स्युः। तथा सति विधिप्रतिषेधशास्त्राणां वैयर्थ्यप्रसङ्गः, ज्ञानिनो विधिनिषेधातीतत्वात्। तथैवैकस्य बन्धेन सर्वे बद्धाः स्युः। तस्मादात्मनानात्वमेव युक्तम्।
समाधिः –
(1) यत्तूक्तं अहमहमिति अहंप्रत्ययस्य भेदादात्मा अनेक इति, तन्न युज्यते – तथाहि ‘अहं शिशुरहं कुमारोऽहं युवाऽहं वृद्ध’ इत्यादिव्यवहारेषु शैशवाद्यावस्थाभेदैरहंप्रत्ययस्य भेदेप्येक एवात्मा सर्वावस्थास्वनुवर्तते। न हि यौवनाद्यवस्थासु कौमारायवस्थान्तरानुवृत्तिरस्ति, तथापि भिन्नासु सर्वास्वप्यवस्थास्वेक एवाहंशब्दाभिधेय आत्मानुवर्तमानोऽनुभूयते। तस्मादहं प्रत्ययभेदो नात्मभेदनियामकः। किञ्च तत्तदवस्थागत आत्मा भिन्न यदि, तर्हि शैशवाद्यवस्थान्तरकृतकर्माणि यौवनाद्यवस्थान्तरे स्मरणगोचराणि न स्युः। तस्मान्नप्रत्यक्षविषय आत्मभेदः।
(2) एकस्मिन्नेव देहे यथा अवयवभेदमाश्रित्य शिरःपाणिपादादिव्यवहारः सिद्ध्यति, तथा सकलशरीरेष्वात्मन एकत्वेऽपि तत्तच्छरीरभेदमाश्रित्य ‘त्वं’ ‘अहं’ ‘अयं’ इत्यादिभेदव्यवहार उपपद्येत। न ह्ययं भेदव्यवहारः आत्मभेदनिबन्धनः। तस्माद्भेदव्यवहारसिद्ध्यन्यथानुपपत्त्या आत्मभेदः सिद्ध्यतीत्यर्थापत्तिरपि न प्रमाणम्।
(3) शरीरव्यक्तिभेदात् ‘त्वं,’ ‘अंह’ ‘अयं’ इत्यादिव्यवहारभेदाच्चात्मनानात्वानुमानं न प्रमाणम्। स्थूलसूक्ष्मकारणशरीराणां जाग्रत्स्वप्नशरीराणां च भेदेऽपि अहमहमिति प्रत्यभिज्ञायमानस्यात्मनो भेदाभावात्।
(4) पूर्वोक्तश्रुतिस्मृतिपुराणेतिहासादिसिद्धदेवदानवमनुष्यादिभेदव्यवहारस्तु ब्रह्मादिस्तम्बान्ततत्तद्देहभेदाधीनो नात्मभेदनिबन्धनः। सर्वशरीरेष्वपि चैतन्यस्यैकरूपत्वेन चैतन्यस्वरूपस्यात्मनो भेदासिद्धेः। “एको देवः सर्वभूतेषु गूढः” (श्वे. 6.11), “एकधैवानुद्रष्टव्यमेतदप्रमयं ध्रुवम्” (बृ. 4.4.20), “मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति” (बृ. 4.4.19) (क. 2.1.11), “सलिल एको द्रष्टाऽद्वैतो भवति “ (बृ. 4.3.32), “एकस्तथा सर्वभूतान्तरात्मा” ( क. 2.2.9), “तत्र को मोहः कः शौकः एकत्वमनुपश्यतः” (ई. 7) इत्यादिश्रुतिशतेभ्य आत्मनः एकत्वनिश्चयाच्च।
(5) न चात्मैकत्वे सुखदुःखादिव्यवस्था प्रत्यक्षसिद्धा न सिद्ध्येदिति वाच्यं, अन्तःकरणरूपोपाधिभेदनिबन्धनत्वात्तस्याः। तत्तदुपाधिगतसुखदुःखादिव्यवस्थायास्तत्तत्प्रारब्धकर्माधीनत्वात्। एकस्मिन्नेव देहे सुखदुःखादीनां वैचित्र्यं कर्मभेदादुपपद्यते। तस्मात् सुखदुःखादीनां पुण्यापुण्यकर्मकार्यत्वेन तद्भेदात् चिदाभासयुक्ततत्तदन्तःकरणरूपभोक्तृभेदाच्च सुखदुःखादिव्यवस्था संभवत्येव।
आत्मन एकत्वे एकस्य सर्वज्ञत्वे सर्वे सर्वज्ञाः स्युः, ततो विधिनिषेधादिशास्त्रमनर्थकं स्यादितीयमपि शङ्का न युज्यते। यद्यप्येक एवात्मा सर्वदा सर्वत्र सर्वं विजानाति, तथापि तत्तद्देहस्थान्तःकरणवृत्तिद्वारैव घटपटादिविषयविशेषान् जानाति। यतो देहभेदनिबन्धनो बुद्धिभेदस्तत एव प्रतिदेहं ज्ञानभेदोप्यवश्यं जायेतैव।
अथवा तत्तद्बुद्धिवृत्त्या सम्बद्धमेव घटपटादिवस्तु भासते, नेतरत्। बुद्धिवृत्तिरूपं ज्ञानं परिच्छिन्नम्। यस्मात् परिच्छिन्नायास्तत्तद्बुद्धिवृत्तेस्तत्तद्वस्तुभिरेव संबन्धो न सर्वैः तस्मान्न सर्वेषां सर्वज्ञत्वापत्तिः।
शब्दोत्पादकस्याकाशस्यैकत्वेन सर्वव्यापितया च सर्वत्र भेरीमृदङ्गादिसंबन्धे सत्यपि दण्डादिभिरभिघातो यत्र भवति तत्प्रदेशमात्रे शब्द उत्पद्यते नान्यत्रेति यथा, एवमेवैकस्य चिन्मात्रस्यात्मनः परिपूर्णस्यापि यत्र बुद्धिवृत्तेः येन वस्तुना सह संबन्धो भवति तत्रैव तद्वस्तुविषयकं ज्ञानं जायते, न त्वन्यत्र। तस्मादनेकत्वादव्यापकत्वाच्चान्तःकरणतद्वृत्तीनां न सर्वेषां सर्वज्ञत्वापत्तिः।
विधिनिषेधादिपरशास्त्राणां चाज्ञजनप्रवृत्तिनिवृत्तिविषयकत्वात् न वैयर्थ्यापत्तिः। जीवानां सर्वज्ञत्वाभावात् तेषां मध्ये यस्तु वेदान्तश्रवणजन्यज्ञानेन प्रत्यगभिन्नं परं ब्रह्म स्वात्मस्वरूपत्वेन ‘अहं ब्रह्मास्मि’ इति निर्विशङ्कं जानाति स एव मुक्तो नान्यः। तस्माद्बन्धमोक्षव्यवस्था च सिद्ध्यति। इत्थं पूर्र्वोक्ताक्षेपासंभवात् जीवब्रह्मैक्यरूपविषयश्च सिद्ध्यत्येव।