- ४४-५४ अधिकारिविषयकाक्षेपाणां समाधानानि
आवर्तः ५४ – जिज्ञासोरस्मिन् ग्रन्थे प्रवृत्त्युपपत्तिः
एवं पूर्वोक्तचतुर्विधेषु पुरुषेषु पामरविषयिणौ विषयोपभोगजन्यसुखेनैवात्मानं तृप्तं कृतार्थं च मन्यमानौ वर्तते। केषाञ्चिद्विषयिणां पारलौकिकपरमसुखेच्छायां सत्यामप्यतत्प्राप्तिसाधनमेव तत्प्राप्तिसाधनत्वेनान्यथा गृहीत्वा तत्रैव ते प्रवर्तन्ते, साधुसङ्गसच्छास्त्रश्रवणादिरूपपरमानन्दप्राप्तिसाधनज्ञानाभावात् तेषाम्। ततश्च पामरविषयिणोः परमानन्दावाप्त्यर्थं नास्मिन् ग्रन्थे प्रवृत्तिर्जायेत। दुःखहत्यै च न तेषामत्र ग्रन्थे प्रवृत्तिः, उपायान्तरे प्रवृत्तत्वात्। तस्मान्निरतिशयसुखावाप्तये आत्यन्तिकदुःखहानाय च पामरविषयिणोरस्मिन्ग्रन्थे न संभवति प्रवृत्तिः। मुक्तस्यापि नास्त्यधिकारोऽस्मिन् ग्रन्थे। ज्ञानी हि *१ कृतकृत्यो मुक्त इत्युच्यते। नैवास्ति तस्य कर्तव्यान्तरं दृढतराद्वितीयात्मपरोक्षज्ञानवत्वात्। लीलयात्र कालयापनार्थं प्रवृत्तोऽपि नास्त्यस्य ग्रन्थतः प्रयोजनम्। तस्मान्न मुक्तोद्देशेनाप्ययं ग्रन्थः प्रवृत्तः। किन्तु मुमुक्षुरूपजिज्ञासुमुद्दिश्य प्रवृत्तोऽयं ग्रन्थः। न तस्यास्ति विषयसुखेच्छा। निरतिशयभूमानन्दलिप्सया तस्य संसारदुःख जिहासावत्वात्। नित्यनिरतिशयपरमानन्दप्राप्तिः आत्यन्तिकदुःखनिवृत्तिश्चापरोक्षात्मज्ञानं विना कर्मयोगसांख्ययोगोपासनादिभिर्न सिद्ध्यतीति विवेको यस्य सत्सङ्गाज्जायते तस्य जिज्ञासोरद्वैतवेदान्तग्रन्थे प्रवृत्तिर्जायेतैव।
*१ अज्ञानदशायां ऐहिकभोगादिसिद्ध्यर्थं कृष्यादिव्यवसायाः, आमुष्मिकभोगार्थं काम्यकर्मोपासनादयः, चित्तशुद्ध्यैकाग्र्यार्थं निष्कामकर्मोपासनादयः, वेदान्तश्रवणाय विवेकवैराग्यादिचतुर्विधसाधनं, अद्वितीयात्मसाक्षात्काराय गुरूपदेशः, संशयादिनिवृत्त्यर्थं श्रवणादयः, तत्पदार्थविषयकपरोक्षत्वभ्रमनिवृत्तये त्वपदार्थविषयकपरिच्छिन्नत्वभ्रमनिवृत्तये चान्योन्यव्यतिषङ्गः, (व्यतिहारः, ओतप्रोतभावः), मोक्षार्थं दृढतराद्वितीयचिन्मात्रात्मापरोक्षसाक्षात्कारश्चेत्येवमादिपुष्कलसाधनानुष्ठानं, तत्संपादनञ्च ‘कर्तव्यम्’ इत्युच्यते। एतदनुष्ठानसंपादनरूपं कर्तव्यं येन कृतं स एव ‘कृतकर्तव्यः’ = ‘कृतकृत्यः’ इत्युच्यते।