- ४४-५४ अधिकारिविषयकाक्षेपाणां समाधानानि
आवर्तः ५३ – जिज्ञासुलक्षणम्
यस्तु शास्त्रीयोत्तमसंस्कारबलादध्यात्मादिसच्छास्त्रश्रवणं करोति तस्य वक्ष्यमाणरीत्या विवेको जायते। तथा विवेको यस्य भवति स एव जिज्ञासुः भवति।
(1) तत्र वैषयिकं सुखं सर्वमपि दुःखमेवेति प्रथमतो विवेको भवति। तथा हि, विषयसुखं सर्वमनित्यमेव विषयेन्द्रियसंयोगजत्वेनागमापायित्वात्। सुखं च वैषयिकं स्वावस्थितिसमयेऽपि यत्किञ्चिद्दुःखानुषङ्ग्येव भवति। स्वविनाशेनापि दुःखहेतुर्भवति। किञ्च वैषयिकं सुखमनुभवदशायामपि, इतः परमीदृशं सुखं क्षीयेत किलेति व्याकुलतोत्पादनेनापि दुःखनिदानमेव। एवञ्च वैषयिकं सुखं सर्वं दुःखेन कबलीकृतमेव वर्तते। तस्माद्विषयजन्यं सुखं वस्तुतः सुखस्वरूपमपि विषयोपाधिसंबन्धाद्दुःखमेव भवति सर्वदा। न चैतद्दुःखं केनचिदपि लौकिकोपायेन परिहर्तुं शक्यते। उपायान्वेषणकुशलस्यापि निःशेषदुःखनिवृत्तेरदर्शनात्। निवृत्तमिव च सदपि पुनरुत्पद्यत एव।
(2) ततः, यावच्छरीरस्थिति दुःखं न निवर्तेतेति विवेको भवति। “न वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति, अशरीरं वा वसन्तं न प्रियाप्रिये स्पृशतः” (छा. 8.12.1) इति, शरीरमात्रस्य पुण्यपापफलत्वात्, शरीरान्वयव्यतिरेकाभ्यां सुखदुःखसंबन्धतदभावौ श्रूयेते।
तत्र मनुष्यशरीरं तु पुण्यपापमिश्रकर्मफलमिति प्रसिद्धमेव। देवशरीरमपि मिश्रकर्मफलमित्येव वक्तव्यम्; केवलपुण्यफलत्वे तु देवानां देवतान्तरविभूत्यतिशयदर्शनेन न तापो जायेत। जायत इति हीतिहासपुराणादिषु कथ्यते। किञ्चाशेषदेवप्रधानभूतस्यापीन्द्रस्यानेकदैत्यदानवादिभ्यो भयान्महद्दुःखं पापफलभूतं जायत इति शास्त्रेण प्रतिपाद्यते। यदि देवशरीरं केवलपुण्यफलं स्यात् नैव स्यात् कदाचिदपि देवनां दुःखम्। तस्माद्देवशरीरमपि पुण्यापुण्यमिश्रकर्मफलमित्येव निश्चीयते। न च “न ह वै देवान् पापं गच्छति पुण्यमेवानुं गच्छति” (बृ. 1.5.20) इत्यादिश्रुतेर्न देवानां पापसंबन्धोऽस्तीति वाच्यम् – अन्यपरत्वात् तस्याः श्रुतेः; कर्माधिकारयोग्यं शरीरं मानुषमेव, नेतरत् देवतिर्यगादिशरीरम्। अतो देवताशरीरेण कृतपुण्यापुण्यफलं जन्मान्तरे न तान् गच्छतीत्यर्थः, न तु तेषां कर्मफलाभावमात्रमिति। किं तर्हि; देवशरीरोत्पत्तेः प्राग्जन्मनि शरीरान्तरकृतशुभाशुभकर्मफलं देवजातिशरीरेऽनुभूयत एव। तस्माद्देवादिशरीरमपि मिश्रकर्मफलमेव।
तिर्यक्पशुपक्षिमृगादीनामपि शरीरं मिश्रकर्मफलमेव। तैरनुभूयमानप्रचुरदुःखानां पापकर्मफलत्वेऽपि मैथुनादिजन्यसुखस्य पुण्यफलत्वाभ्युपगमात्। तिर्यक् = कीटादिः। पशुः = चतुष्पात्। पक्षी = पक्षाभ्यां गगनचारी। मृगः = व्याघ्रादिः। केचन पशुपक्ष्यादीनपि तिर्यगित्याचक्षते।
एवं निखिलमपि शरीरं पुण्यापुण्यकार्यमित्येव सिद्धान्तः। तथाऽपि, देवशरीरस्य पापोपसर्जनपुण्यातिशयजन्यत्वात् तदभिप्रायेण शास्त्रेषु देवशरीरं पुण्यफलमित्युच्यते। अतो नात्र विरोधशङ्कावकाशः। यथा ब्राह्मणप्रचुरो ग्रामो ‘ब्राह्मणग्राम’ इत्युच्यते, एवं पुण्यातिशयफलत्वाद्देवशरीरं पुण्यस्य फलमित्युपचर्यते, न तु वस्तुतः। तिर्यगादिशरीरं पुण्योपसर्जनपापातिशयफलम्। उत्तममनुष्यशरीरं देवशरीरसममेव। नीचशरीरं सर्पादिशरीरतुल्यम्। एवं निखिलमपि शरीरं पुण्यापुण्यफलमेव। अत एव पापफलत्वाद्दुःखस्य शरीरसंबन्धो यावत् तावद्दुःखक्षयो न स्यात्।
(3) ततः, सर्वशरीरिणां स्वस्वशरीरं स्वस्वार्जितधर्माधर्मफलभूतमेवेति विवेक उत्पद्यते। विना तु निःशेषधर्माधर्मादिनिवृत्तिं नात्यन्तिकतया शरीरविनाशः संभवेत्। प्रारब्धनाशादद्यतनशरीरनाशेऽपि पुनः शरीरान्तरं प्राचीनानन्तकोटिजन्मार्जितपुण्यापुण्यवशाज्जायेतैव। तस्मान्निःशेषकर्मक्षयमन्तरा नात्यन्तिकशरीरनाशरूपमोक्षः संभवति।
(4) पुण्यापुण्ययोश्च क्षयो न रागद्वेषादिनिवृत्तिमन्तरा घटेतेति विवेकस्ततो जायते। एतच्छरीरारम्भकपुण्यापुण्ययोर्भोगेन क्षयेऽपि रागद्वेषवशात् पुण्यापुण्यरूपकर्मान्तरोत्पत्तिः स्यात्। तस्मान्निःशेषरागद्वेषनिवृत्तिमन्तरा नाशेषकर्मक्षयः।
(5) रागद्वेषौ चेष्टानिष्टसाधनताज्ञानप्रयोज्याविति ततो जानाति विवेकी। इष्टे रागोऽनिष्टे द्वेषश्च सर्वप्राणिसाधारणौ। तस्मादिष्टानिष्टसाधनताबुद्धिनिवृत्तिमन्तरा न रागद्वेषौ निवर्तेते।
(6) इष्टानिष्टसाधनताबुद्धिरपि भेदधीनिबन्धनेति विवेकस्ततो जायते। यदा स्वस्वरूपादन्यदिव द्वितीयं वस्त्वव(?)बुद्ध्यते तदा तत्रेष्टसाधनताबुद्धिर्वा अनिष्टसाधनताबुद्धिर्वा जायेत। स्वस्वरूपमात्रे तु कस्यचिदपि इष्टसाधनताबुद्धिर्वा अनिष्टसाधनताबुद्धिर्वा न जायते। सुखसाधनं = अनुकूलं इष्टसाधनमिति चोच्यते। दुःखसाधनं = प्रतिकूलं अनिष्टसाधनमिति चोच्यते। स्वस्वरूपं तु न सुखस्य वा दुःखस्य वा साधनं भवति, तस्य सुखस्वरूपत्वेन सुखसाधनत्वासंभवात्। अतः स्वस्वरूपातिरिक्तत्वेनावगते वस्तुनि आनुकूल्यप्रातिकूल्यबुद्धी यथासंभवं जायेते। एवञ्चाखण्डानन्दाद्वितीयासङ्गचिद्रूपस्वस्वरूपादतिरिक्तवस्तुसङ्कल्पनमेवानुकूल्यप्रातिकूल्यबुद्धिहेतुः। ईदृग्भेदबुद्धिनिवृत्तिमन्तरा आनुकूल्यप्रातिकूल्यबुद्धी न निवर्तेते।
(7) ईग्भेदबुद्धिः स्वस्वरूपाज्ञानाज्जायते इति विवेकस्ततो भवति। “यत्र हि द्वैतमिव भवति तदितर इतरं जिघ्रति” (बृ. 2.4.14), “यत्र वाऽन्यदिव स्यात् तत्रान्योऽन्यत्पश्येत्” (बृ. 4.3.31), “यदेव जाग्रद्भयं पश्यति तदत्राविद्यया मन्यते” (बृ. 4.8.20) इत्याद्यनन्तश्रुतयः स्वस्वरूपाज्ञानदशायामेव सकलद्वैतप्रपञ्चव्यवहार इति बोधयन्ति। एवमशेषदुःखनिदानं स्वस्वरूपाज्ञानमिति सिद्धम्।
(8) ततः स्वस्वरूपाज्ञानं स्वस्वरूपज्ञानेनैव निवर्तते नान्येन, तयोः तमःप्रकाशवत् परस्परविरोधित्वादिति विवेक उत्पद्यते। यद्विषयकमज्ञानं भवति तदज्ञानं तद्विषयका परोक्षज्ञानेनैव निवर्तते; यथा रज्ज्वज्ञानं रज्जुसाक्षात्कारेणैव निवर्तते, तद्वत्। तस्मात् स्वस्वरूपापरोक्षज्ञानमेवाखिलानर्थनिदानस्वस्वरूपाज्ञाननिवृत्तिद्वारा निःश्रेयसात्मकनिखिलदुःखनिवृत्तिहेतुर्भवति। स्वस्वरूपस्यैव सत्यज्ञानानन्तानन्दब्रह्मरूपत्वात् स्वस्वरूपज्ञानेन ब्रह्मावाप्तिर्भवति। ब्रह्म च नित्यनिरतिशयाखण्डानन्दरूपं दुःखासंभिन्नमिति सर्ववेदान्तप्रमाण सिद्धम्। अत एव स्वस्वरूपसाक्षात्कारेणैव नित्यनिरतिशयदुःखासंभिन्नस्वस्वरूपभूतब्रह्मानन्दोऽवाप्यते। एवं निखिलदुःखनिवृत्त्युपलक्षितस्वस्वरूपभूताखण्डानन्दप्राप्तेः साक्षात्साधनं स्वस्वरूपज्ञानमेव। तस्मात् स्वस्वरूपविचार एव कर्तव्यः। इत्थं यस्य विवेको जायते स एव जिज्ञासुः इत्युच्यते।
मुक्तलक्षणम्
लक्षणम् – स्थूलसूक्ष्मकारणात्मकशरीरत्रयविलक्षणं पञ्चकोशविलक्षणं च स्वस्वरूपं अखण्डाद्वितीयस्वयंज्यो तिःस्वभावानन्दघनब्रह्मरूपेण यः साक्षादपरोक्षीकरोति करतलामलकवत् स एव मुक्त इत्युच्यते ॥