ॐ गुरुपरमात्मने नमः

- ४०-१०८ द्वितीयतरङ्गः -- अनुबन्धानां विशेषतो निरूपणम्
- ४४-५४ अधिकारिविषयकाक्षेपाणां समाधानानि


आवर्तः ५२ – पामरविषयिणोर्लक्षणम्

यतूक्तं सर्वेऽपि विषयसुखासक्ता एव, न कोऽपि नित्यनिरतिशयसुखं वाञ्च्छतीति, तन्न। पामरो, विषयी, जिज्ञासुर्मुक्तश्चेति लोके चतुर्विधाः पुरुषाः। तत्र विहितप्रतिषिद्धेष्वैहिक-विषयभोगेष्वासक्तः सन् शास्त्रीयसंस्कारशून्यो यः स पामरः। शास्त्रानुसारिविषयभोगान् भुञ्जानः सन् इहामुत्रार्थफलभोगावाप्तये कर्म कुर्वाणो विषयी