ॐ गुरुपरमात्मने नमः

- ४०-१०८ द्वितीयतरङ्गः -- अनुबन्धानां विशेषतो निरूपणम्
- ४४-५४ अधिकारिविषयकाक्षेपाणां समाधानानि


आवर्तः ५१ – पूर्वावर्तस्य तृतीयं प्रष्टव्यम्

प्रौढग्रन्थैर्मन्दमतीनां मुमुक्षूणां बोधानुदयादयं ग्रन्थो यद्यपि तेषां मोक्षोपयोगी स्यात् तथापि मुमुक्षामात्रेणास्मिन् ग्रन्थे प्रवृत्तिर्न जायेत। विवेकवैराग्यशमदमादिसाधनकलापयुक्तमुमुक्षुजनासंभवादिति शङ्कमानो विकल्प्यते – किमधिकारिणो बहवो न सन्ति उत नैकोऽपीति।

आद्ये इष्टापत्तिः सर्ववादिसंप्रतिपत्तेः। न द्वितीयः – ज्ञानयोग्याधिकार्येव नास्तीत्येतदसङ्गतमेव।

तथा हि, सर्वेषामप्यन्तःकरणं निसर्गत एव मलविक्षेपस्वरूपावरणाख्यदोषत्रयदूषितं वर्तते। मलम् = पापं, विक्षेपः = चाञ्चल्यं, आवरणं = स्वरूपाज्ञानम्। तत्र शुभकर्मणा मलस्य, उपासनया विक्षेपस्य, ज्ञानेन स्वरूपावरणस्य च निवृत्तिर्जायत एव। यस्यान्तःकरणे मलविक्षेपादिदोषाः सन्ति न सोऽधिकारीति सिद्धम्। यस्य तु पुनरिह जन्मनि जन्मान्तरे वाऽनुष्ठितशुभकर्मोपासनादिभिर्मलविक्षेपादिदोषा अन्तःकरणान्निवृत्ताः, स एव वेदान्तविचारजनितज्ञाने मुख्यो योग्याधिकारी भवति। तस्यास्मिन् ग्रन्थे जायेतैव प्रवृत्तिः।