ॐ गुरुपरमात्मने नमः

- ४०-१०८ द्वितीयतरङ्गः -- अनुबन्धानां विशेषतो निरूपणम्
- ४४-५४ अधिकारिविषयकाक्षेपाणां समाधानानि


आवर्तः ५० – पूर्वावर्तस्य द्वितीयं प्रष्टव्यम्

यद्यप्यस्य ग्रन्थस्य मोक्षहेतुत्वमस्ति तथापि प्राचीनैः प्रौढग्रन्थान्तरैः साधनतममोक्षोपायस्य सम्यक्प्रतिपादितत्वाद्विफलोऽयं ग्रन्थ इति वदन् वादी प्रष्टव्यः – कानि तानि साधनतमानि ग्रन्थान्तराणीति। स यद्याह– जीवब्रह्मैक्यबोधकनिखिलोपनिषद्गीतासूत्रतद्भाष्यादयो ऽनेकग्रन्थाः प्रौढाः प्रागेव सिद्धाः। तेभ्यो ग्रन्थेभ्यो ज्ञानद्वारा मोक्षः सिद्ध्यति, अतोऽयं ग्रन्थो विफल इति – तर्हि तादृग्ग्रन्थविचारासमर्थानां मुमुक्षूणां तादृशग्रन्थैर्ज्ञानोदयासंभवात्, अत्र च मन्दमतीनां तीव्रतरमुमुक्षूणां प्रवृत्तिसंभवाच्च सफलोऽयं ग्रन्थ इति प्रतिब्रूयात्।