ॐ गुरुपरमात्मने नमः

- ४०-१०८ द्वितीयतरङ्गः -- अनुबन्धानां विशेषतो निरूपणम्
- ४४-५४ अधिकारिविषयकाक्षेपाणां समाधानानि


आवर्तः ४९ – सत्यपि मुमुक्षौ तस्य मोक्षग्रन्थे प्रवृत्यनुपपत्तेः तदारम्भो विफल इति द्वितीयोऽपि पक्षो न सङ्गच्छते

सत्यपि मुमुक्षौ तस्य मोक्षग्रन्थे प्रवृत्यनुपपत्तेस्तदारम्भो विफल इति द्वितीयोऽपि पक्षो न सङ्गच्छते। अत वादी प्रष्टव्यः –

(१) अस्मिन् ग्रन्थे मुमुक्षोः प्रवृत्त्यभावकारणं किमस्य ग्रन्थस्य मोक्षसाधनत्वाभावो वा,

(२) किं वा इतोप्युत्कृष्टस्य साधनतमस्य ग्रन्थान्तरस्य सत्त्वं वा,

(३) उत वेदान्तग्रन्थेषु यानि साधनानि शमदमादीन्युक्तानि, अधिकारिविशेषणत्वेन तादृशशमदमादिसाधनचतुष्टयसहितस्य ज्ञानसंपादनयोग्याधिकारिण एकस्याभावो वा।

प्रथमं प्रष्टव्यम् –

नाद्यः। न हि ग्रन्थो मोक्षसाधनम्। यतः “तमेव विदित्वाऽतिमृत्युमेति” (श्वे. 6.15) इत्यादिप्रमाणैर्ज्ञानमेव मोक्षसाधनं नान्यदिति सिद्धान्तः। तच्च ज्ञानं वेदान्तश्रवणादेव जायते। श्रवणं अपि द्विविधम् –

(१) प्रथमं वेदान्तवाक्यस्य श्रोत्रेन्द्रियेण संयोगरूपम्।

(२) वेदान्तवाक्यार्थविचाररूपं तु द्वितीयम्।

एतयोर्ज्ञानस्य मुख्यसाधनं प्राथमिकं श्रवणमेव, न तु द्वितीयम्। शाब्दबोधं प्रति श्रोत्रेण शब्दसन्निकर्षस्यैव सर्वत्र कारणत्वाङ्गीकारात्। अतो वेदान्तवाक्यस्य श्रोत्रेन्द्रियेण सह संयोगरूपश्रवणमेव ब्रह्मापरोक्षज्ञानहेतुर्भवति। तत्रावान्तरवाक्यश्रवणं परोक्षज्ञानहेतुः। महावाक्यश्रवणं तु अपरोक्षज्ञानहेतुरिति च प्राक् प्रतिपादितम्। यस्य तु पुनर्ज्ञानोदयानन्तरमप्यसंभावनाविपरीतभावने संभवतः, स तु द्वितीयं विचाररूपश्रवणं मननं निदिध्यासनं च तन्निवृत्तये करोतु। इदञ्च द्वितीयं वेदान्तवाक्यार्थविचाररूपश्रवणं, ‘किं वेदान्तवाक्यानि ब्रह्माद्वितीयं प्रतिपादयन्ति, आहोस्विदर्थान्तरमित्येवमात्मकं’ वेदान्तवाक्येषूत्पद्यमानमसंभावनारूपसंशयं निरस्यति।

मननं हि प्रमेयगतासंभावनां ‘किं जीवब्रह्मैक्यं वास्तवं उत तद्भेद’ इत्यादिसंशयात्मिकां *१ निवर्तयति।

निदिध्यासनं तु ‘देहादिदृश्यप्रपञ्चस्य जीवब्रह्मणोश्च भेदः सत्य’ इत्याद्यनादिकालसिद्धविपरीतभावनां निःशेषमुन्मूलयति। इत्थं प्राथमिकं श्रवणं ब्रह्मात्मैक्यज्ञानद्वारा मोक्षहेतुः। वाक्यार्थविचाररूपं द्वितीयं श्रवणं मननं निदिध्यासनं चेत्यादिरसंभावनाविपरीतभावनानिवृत्तिद्वारा मोक्षहेतुः। वेदान्ता इति उपनिषद एवोच्यन्ते। यद्यप्येतस्मात् पौरुषेयात् प्रकरणात्ताः भिन्नास्तथापि तदर्थस्यैवायं ग्रन्थो बालानां सुललितं बोधको भवति। एतद्ग्रन्थश्रवणेऽनायासेन यथा आत्मस्वरूपसाक्षात्कारो जायेत, तथोपरिष्टात् प्रपञ्चयिष्यते। इत्थमयमपि ग्रन्थो ज्ञानोत्पत्तिहेतुत्वेन मोक्षकारणं भवति, असंभावनाद्यशेषदोषशङ्कापाकरणसमर्थश्रवणमननात्मकत्वादस्य ग्रन्थस्य। तस्मान्नानेन ग्रन्थेन मोक्षो जायेतेत्येतत् केवलं हठः।

*१. किमियं रज्जुर्वा सर्पो वेत्यादिद्विकोटिकज्ञानं संशय इत्युच्यते। आत्मानात्मनोश्च नानाविधः संशयः संभवेत्। अनात्मविषयकसंशय उपेक्ष्यतेऽत्र, निष्फलत्वात्। आत्मविषयकसंशयस्तु द्विप्रकारः – प्रमाणगतः प्रमेयगतश्चेति। तत्रोपनिषद्रूपवेदान्तवाक्यानि किं द्वैतं प्रतिपादयन्ति आहो स्विदद्वैतमुतार्थान्तरमित्येवंरूपः प्रमाणगतसंशयः। अयञ्च श्रवणात्प्राक् संभवति।

वेदान्तप्रमाणवेद्यमोक्षादिपदार्थाः सर्वेऽपि प्रमेया उच्यन्ते। एतद्विषयकसंशयः प्रमेयगत इति। अयञ्च प्रमेयगतसंशयः विषयभेदादनन्तविधः।

तथाहि – (1) मोक्षसाधनविषयकसंशयाः – सर्वानर्थनिवृत्तिः परमानन्दावाप्तिश्व मोक्ष इति सिद्धान्तः। तत्र साक्षान्मोक्षसाधनं किं कर्म, उतोपासनं, अथ वा ज्ञानमिति मोक्षसाधने संशयाः। (2) ज्ञानसाधनविषयकसंशयाः – ज्ञानस्य मोक्षसाधनत्वे, अपरोक्षज्ञानं प्रति साक्षात्साधनं किं यज्ञादिकर्म, उतोपासनमथवा विवेकादिसाधनचतुष्टयं, श्रवणादित्रयं वा तत्त्वंपदार्थशोधनरूपावान्तरवाकयार्थज्ञानं वा, आहोस्वित् तत्त्वमस्यादिमहावाक्यार्थोपदेशो वेत्यादिज्ञानसाधनविषयकसंशयाः। (3) वेदान्तज्ञानविषयीभूतजगत्त्वंपदार्थ-जीवतत्पदार्थेश्वरविषयकसंशयाः – ज्ञानस्य विषयः किं भेदः अभेदो वा। अभेदे किं प्रत्यग्ब्रह्मणोरभेदः, उतान्तःकरणविशिष्टचिदात्मकजीवस्य विराड्ढिरण्यगर्भान्तर्यामिरूपेश्वरेणाभेदः।
प्रत्यगात्मा किं स्थूलदेहाद्भिन्नः अभिन्नो वा। भिन्नत्वे आत्मा किं जडः उत चिद्रूपः, अथवा चिज्जडोभयात्मकः। चेतनत्वे हि कर्तृभोक्तृस्वरूपो वा, अकर्तृभोक्तृस्वरूपो वा। आत्मा किमणुपरिमाणो वा, मध्यमपरिमाणो वा महापरिमाणो वा। आत्मनोऽभेदः किं तत्पदवाच्यार्थेन, उत तत्पदलक्ष्यार्थेन। जगतः कारणं किं प्रधानादि, उतेश्वरः। ईश्वरः चेत्, स किं परिच्छिनः उत व्यापकः। स चेश्वरो जगतः किमुपादानकारणमाहोस्वित् निमित्तमुताभिन्ननिमित्तोपादानकारणम्। ईश्वरः किं जीवादृष्टवशात् सृजति, उत विषमदृष्ट्या। आत्मा किं ब्रह्मणोऽभिन्न उत भिन्नः। अभिन्नः चेत् किं सदाऽभिन्नः, उत मोक्षदशायामेव। आत्मा किमानन्दादियुक्तः अथवा न। सच्चिदानन्दादयो ऽस्यात्मनः किं गुणाः, उत स्वरूपमेव। ते च सच्चिदानन्दादयः किं परस्परं भिन्नाः, उताभिन्ना एव। इत्येवमाद्यनन्तसंशया जायन्ते। एवंरूपान् प्रमाणप्रमेयगतसन्देहानादौ श्रवणमनननिदिध्यासनैरपोह्य ब्रह्मापरोक्षज्ञानेन तान् निःशेषं नाशयेत्।