ॐ गुरुपरमात्मने नमः

- ४०-१०८ द्वितीयतरङ्गः -- अनुबन्धानां विशेषतो निरूपणम्
- ४४-५४ अधिकारिविषयकाक्षेपाणां समाधानानि


आवर्तः ४८ – वैषयिकमेव सुखं सर्वेऽभिलषन्तीत्येतदसमञ्जसम्

वैषयिकमेव सुखं सर्वेऽभिलषन्तीत्येतदसमञ्जसम्। किं तर्हि, सर्वे सुखसामान्यमिच्छन्ति। तच्च सुखं विषयजन्यं वाऽस्तु, तदितरद्वा। यदि विषयजन्यसुखमेवेच्छन्तीत्युच्येत तर्हि सुषुप्तिसुखे न स्यादेवेच्छा कस्यचिदपि, विषयाजन्यत्वात् तस्य। अतः सुखसामान्यमेव सर्वेऽपीच्छन्ति, न वैषयिकसुखमेवेति नियमः। प्रत्युत सर्वेषां प्रत्यहं सुषुप्तिगमनात् स्वात्मसुखेच्छैव जायत इति वस्तुस्थितिः। ‘सुखमहमस्वाप्सम्’ इति परामर्शेन निरतिशयसौषुप्तसुखस्यात्मस्वरूपसुखत्वेन निश्चितत्वात्। किञ्च तारतम्योपेतं वैषयिकं सुखं सर्वप्राणिनां सिद्धमेव। अतश्चासिद्धे नित्यनिरतिशयैकविधसुखप्राप्तावेवेच्छा नैसर्गिकी सर्वप्राणिनाम्। तादृशं च सुखं नित्यसिद्धात्मस्वरूपसुखमेव। आत्मस्वरूपसुखमेव च मोक्षः, नेतरत्। तस्मात् सर्वेऽपि मुमुक्षव एव। नास्त्येव मुमुक्षुः कश्चिदपीति साहसमात्रम्।