आवर्तः ४६ – द्वितीयाक्षेपस्य समाधानम्
यतूक्तं *१ प्रागनुभूतस्यैव वस्तुनः प्राप्तीच्छा जायते। ब्रह्मणस्तु केनाप्यननुभूतपूर्वत्वात् तत्प्राप्तिरूपे मोक्षस्य द्वितीयांशे न कस्यापीच्छा जायेतेति। तदसत्। सर्वैः सुखस्यानुभूतत्वात् सर्वेषां तत्रेच्छा जायते। ब्रह्मणश्च नित्यनिरतिशयसुखस्वरूपत्वेन सर्ववेदान्तप्रसिद्धत्वात् साधनचतुष्टयसंपन्नस्योत्तमाधिकारिणः सुखस्वरूपब्रह्मप्राप्तीच्छा जायेतैव।
*१. यद्यनुभूतसामान्ये इच्छा जायेतेति नियमस्तर्हि पूर्वानुभूते प्रतिकूले रोगतन्निमित्तकदुःखादौ चेच्छाऽऽपद्येत। न तु तथा लोके दृश्यते। तस्मादनुकूले प्रागनुभूतसुखतत्साधनसजातीये एवेच्छा जायत इत्येव नियमः। ब्रह्मानन्दप्रतिबिम्बभूतं वैषयिकं सुखं च सर्वानुभवप्रसिद्धम्। ततश्च तत्सजातीयबिम्बभूतनित्यनिरतिशयाद्वितीयब्रह्मानन्दे सर्वेषामिच्छा जायेतैव।
आवर्तः ४७ – तृतीयाक्षेपस्य समाधानम्
यत्तावदभिहितं – सर्वोऽपि लोको विषयेन्द्रियसंयोगजसुखमेव वाञ्छति। न ह्येतदस्ति मोक्षे, अद्वितीयत्वान्मोक्षस्य द्वैतप्रपञ्चायत्तत्वाच्च विषयसुखस्य। अतोऽधिकारिणो मुमुक्षोरभावात् ग्रन्थारम्भो निरर्थक इति।
तत्रास्ति तावत् प्रष्टव्यम् – किं मुमुक्षुरेव नास्ति कश्चिदपीत्युच्यते, उत सत्यपि मुमुक्षौ तस्य ग्रन्थे प्रवृत्तिरेव न जायेतेति। नाद्यः। सर्वेषामात्यन्तिकदुःखनिवृत्तौ नित्यनिरतिशयसुखावाप्तौ चेच्छादर्शनात्। निःशेषदुःखध्वंसपूर्वकनित्यनिरतिशयसुखस्यैव मोक्षरूपत्वात्। तस्मात् सर्वेऽपि मुमुक्षव एव।