- ४४-५४ अधिकारिविषयकाक्षेपाणां समाधानानि
आवर्तः ४५ – दुःखनिधानं त्वज्ञानं तत्कार्यरूपप्रपञ्चश्चेति
दुःखनिधानं त्वज्ञानं तत्कार्यरूपप्रपञ्चश्चेति छान्दोग्योपनिपदि भूमविद्याप्रकरणे स्फुटतरं निरूप्यते। तत्र हि –
“अधीहि भगव इति होपससाद सनत्कुमारं नारदः। तं होवाच यद्वेत्थ तेन मोपसीद ततस्त ऊर्ध्वं वक्ष्यामीति। स होवाच ऋग्वेदं भगवोऽध्येमि … एतद्भगवोऽध्येमि” (छा. 7.1.1.2),
“सोऽहं भगवो मन्त्रविदेवास्मि नात्मवित्। श्रुतं ह्येव मे भगवद्दृशेभ्यस्तरति शोकमात्मविदिति। सोऽहं भगवः शोचामि। तं मा भगवान् शोकस्य पारं तारयत्विति। तं होवाच यद्वै किञ्चैतदध्यगीष्ठा नामैवतत्।” (छा. 7.1.3)
इत्यादिना द्वाविंशतिभिः खण्डिकाभिरपरब्रह्मोपासनं ज्ञानसाधनमुक्त्वा ततः परम् –
“यो वै भूमा तत्सुखं नाल्ये सुखमस्ति। भूमैव सुखं, भूमा त्वेव विजिज्ञासितव्यः। भूमानं भगवो विजिज्ञासे।” (छा. 7.23.1),
“यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा। अथ यत्रान्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्पं, यो वै भूमा तदमृतं, अथ यदल्पं तन्मर्त्यम्” (छा. 7.24.1)
इत्यादिना भूमविद्योपदिश्यते।
अत्रायमर्थः – सकलकलाभिज्ञोऽपि नारदः आत्मानं शोकाक्रान्तमेवापश्यत्। निःशेषतः शोकतरणं चात्मज्ञानान्नान्यतो भवतीति श्रुतवांश्च। ततश्चात्मनः शोकनिदानाज्ञाननिवृत्तये आत्मज्ञानलाभाय च सनत्कुमारं पप्रच्छ “तं मा भगवान् शोकस्य पारं तारयतु” (छा. 7.1.3) इति। स चानेकसाधनोपदेशानन्तरं शोकशून्यमपरिच्छिन्नं निरतिशयसुखस्वरूपं भूमानमुपदिश्य, ततोऽन्यत् सर्वं दृश्यजातं परिच्छिन्नं दुःखमेवेति, भूमा तु ब्रह्मैवेति चावोचत्। तथा च मूलाज्ञानतत्कार्यमूतदृश्यप्रपञ्चमात्रस्य ब्रह्मणोऽन्यत्वात् तदेवात्र सकलदुःखनिदानमित्युक्तं भवति। तादृशदुःखनिदानस्य द्वैतप्रपञ्चस्य मूलाज्ञानसहितस्य “नेति नेति” (बृ. 2.3.6) इत्यादिश्रुत्युक्तरीत्या स्वरूपतो निवृत्तौ सत्यामेव निखिलदुःखानां निःशेषतया नियमेन निवृत्तिरुपपद्येत। तस्मान्निःशेषदुःखनिवृत्तये समूलाज्ञानप्रपञ्चनिवृत्तिरूपे मोक्षलक्षणविशेषणांशे जायेतैवेच्छा *१।
१. समूलाज्ञानजगन्निवर्वतनेच्छा सर्वेषां जायेतेत्यत्रैवमाशङ्का जायेत – प्रागनुभूतवस्तुन्येवेच्छा जायेत, न त्वननुभूते। न हि ब्रह्मरूपाधिष्ठानसाक्षात्कारेण समूलाज्ञानप्रपञ्चनिवृत्तौ मुमुक्षोः पूर्वानुभवोऽस्ति। अतस्तन्निवृत्तीच्छा न कस्यापि जायेतेति।
तन्न, प्रागनुभूत एवेच्छा जायेतेति नियमस्याभावात्। तथा सत्यतीतभोजनादाविच्छा पुनरपि प्रसज्येत। न तु तथा भवति। किन्तु पूर्वानुभूतभोजनसजातीये भोजनान्तरे इच्छा जायत इत्येव नियमः। तथा च पूर्वोक्तशङ्काया नावकाशः। तथाहि यथाऽऽरोपितसर्पस्य रज्जुरधिष्ठानं तथाऽऽरोपितसमूलाज्ञानप्रपञ्चस्य ब्रह्माधिष्ठानमिति, रज्जुब्रह्मणोरधिष्ठानत्वांशे साजात्यमस्ति। एवमारोपितसर्पादिनिवृत्तेरारोपितसमूलाज्ञानप्रपञ्च निवृत्तेश्चास्ति परस्परं साजात्यम्। मुमुक्षोश्च पूर्वं रज्ज्वाद्यधिष्ठानसाक्षात्कारेण सर्पादिनिवृत्तावनुभवोऽस्ति। ततश्च तत्सजातीयायां निखिलदृश्यप्रपञ्चाधिष्ठानभूतब्रह्मसाक्षात्कारप्रयुक्तसमूलाज्ञानप्रपञ्चनिवृत्ताविच्छा मुमुक्षोर्जायेतैव।