ॐ गुरुपरमात्मने नमः

- ४०-१०८ द्वितीयतरङ्गः -- अनुबन्धानां विशेषतो निरूपणम्

- ४०-१०८ अधिकारिविषयकाक्षेपाणां समाधानानि

आवर्तः ४४ – मोक्षस्य प्रथमांशभूते समूलाज्ञानजगन्निवृत्तिरूपे इच्छासंभवप्रकारः

मोक्षेच्छा न कस्यापि संभवति यतो मोक्षे अंशद्वयमस्ति, प्रथमः सोपादानकारणजगन्निवृत्तिरूपोऽंशः, द्वितीयो ब्रह्मप्राप्तिरूपोऽंशः। तत्र सोपादानकारणजगन्निवृत्तिरूपे मोक्षस्य प्रथमांशे न कस्यापीच्छा संभवति; अपि तु त्रिविधदुःखनिवृत्तीच्छेव सर्वेषां संभवति। तत्तद्दुःखनिवृत्तिस्तत्तदुपायाद्भवति। तस्मात् सोपादानकारणजगन्निवृत्तिकामो मुमुक्षुरधिकारीत्येतन्न सङ्गच्छत इति हि प्रथमः पूर्वपक्षः।

तत्र समाधिः –

सर्वानर्थबीजभूतमूलाज्ञानतत्कार्यजगन्निवृत्तिव्यतिरेकेण नोपायान्तरेण तापत्रयनाशो निःशेषमुपजायेत। निःशेषमूलाविद्यानिवृत्त्यैव सकलदुःखानि तत्कारणीभूतरोगादयः रोगाद्याश्रयशरीरादयश्च निरवशेषं नश्यन्ति। तस्मात् तापत्रयनिवृत्तये समूलाज्ञानजगन्निवृत्तिरूपे मोक्षलक्षणघटकविशेषणांशे उदेत्येवेच्छा सर्वेषाम्।

अयमाशयः – यस्तु सकलौषधाद्युपायनिर्माण निखिलरोगचिकित्सायां चात्यन्तसमर्थस्तस्यापि न नियमेन दुःखशान्तिः दृश्यते। कस्यचिदेव रोगादिजन्यदुःखमौषधाद्युपायैर्निवर्तते, कस्यचिन्नैव। अत एवौषधाद्युपायैः रोगादिजन्यदुःखं न नियमेन सर्वेषां निवर्तते। किञ्च यस्य रोगः औषधाद्युपायैर्निवर्तते तस्यापि कालान्तरे पुनर्जायत एव रोगः। तस्मादौषधाद्युपायैर्दुःखं नात्यन्तिकतया निवर्तते। निवृत्तस्य पुनरपि कदाचिदप्यनुत्पत्तिरेव आत्यन्तिकी निवृत्तिः इत्युच्यते। औषधाद्युपायैर्नियमेन दुःखनिवृत्त्यसंभवात्, निवृत्तस्य च पुनरुत्पत्तिदर्शनात् तादृशैरुपायशतैरपि न निःशेषदुःखनिवृत्तिर्जायेत। परन्तु सकलदुःखनिदाननिवृत्तावेव नियमेनाशेषदुःखनिवृत्तिः स्यात्। तादृशदुःखनिदाननाशे सत्येव भूयो नैव जायेत दुःखलेशोऽपि। तस्मात् सर्वस्यापि लोकस्य दुःखनिवृत्त्यर्थं *१ तन्निदाननिवृत्तीच्छा जायेतैव।

१. यथा ज्वरादिरोगग्रस्त आरोग्यकामनया वैद्योक्तपथ्यपदार्थानि ज्ञात्वा रोगविरुद्धपदार्थपरित्यागेन रोगनिदानानि निरस्यति, तथाऽऽत्यन्तिकदुःखनिवृत्तिकामोऽपि तत्साधनानि गुरूपदिष्टवेदान्तशास्त्रप्रमाणेन ज्ञात्वा तानि दुःखनिदानानि निवर्तयेदेव।