-
४०-१०८
द्वितीयतरङ्गः -- अनुबन्धानां विशेषतो निरूपणम्
- ४०-४३ अधिकारिविषयकाक्षेपाः
- ४०-४३ अधिकारिविषयकाक्षेपाः
आवर्तः ४३ – अधिकार्यभावं प्रकारान्तरेण प्रतिपादयति
सर्वोपि विषयसुखमेव वाञ्छति। तपस्विनोऽपि पारलौकिकभोगाभिलाषेणैवैहिकान् भोगान् परित्यज्यानेकविधक्लेशान् सहन्ते। तथा चैहिकेभ्यो वाऽऽमुष्मिकेभ्यो वा विषयसुखेभ्य एव सर्वे स्पृहयन्ति। नैवेदमस्ति विषयसुखं मोक्षे। ततो न कोऽपि मोक्षसाधनमिच्छेत्। ततश्च मोक्षेच्छारूपा मुमुक्षा न कस्यापि सिद्ध्येत्। किञ्च ब्रह्मादिस्तम्बान्तस्य लोकस्य विषयसुखाशापाशपरवशीकृतचित्तत्वात् वैराग्यो परमशमदमादिसाधनं न कस्यापि सिद्ध्येत्। तस्मात् साधनचतुष्टयसंपन्नस्याधिकारिणो ऽभावाद्विफलोऽयं ग्रन्थारम्भः।