ॐ गुरुपरमात्मने नमः

- ४०-१०८ द्वितीयतरङ्गः -- अनुबन्धानां विशेषतो निरूपणम्
- ४०-४३ अधिकारिविषयकाक्षेपाः


आवर्तः ४२ – सुखप्राप्तिविषयकाक्षेपाः

मोक्षलक्षणघटकविशेष्यांशे ब्रह्मावाप्तिरूपेऽपि न कस्यापीच्छा जायेत।

तथाहि यदेव वस्तु प्रागनुभूतं तज्जातीयवस्त्वन्तरस्यैव सुखसाधनत्वेन संप्राप्ताविच्छा सर्वेषां जायेत, नाननुभूतसंप्राप्तौ। यथा देशान्तरेषु विद्यमानेष्वत्यद्भुतेष्वप्यनिर्ज्ञातेषु पदार्थेषु, तत्प्राप्तीच्छा न कस्यापि जायत एव। (1) तद्वदेवात्रापि मुमुक्षोरधिकारिणः प्राङ्न ब्रह्मविषयकज्ञानमस्ति। (2) यस्य तु ब्रह्मज्ञानमस्ति स नाधिकारी, तस्य मुक्तत्वात्। मुक्तस्य च मुमुक्षानुपपत्तेरधिकाराभावः। अतो वेदान्तश्रवणात् पूर्वमनिर्ज्ञातस्य ब्रह्मणो ऽवाप्तीच्छा कस्यापि नोन्मिषत्येव।

इत्थं समूलाज्ञानजगन्निवृत्त्यात्मके, तदुपलक्षितब्रह्मावातिरूपे च मोक्षे न जायेतैवेच्छा कस्यचिदपि। तस्मादधिकारी मुमुक्षुर्न कोऽपि सिद्ध्यति।