- द्वितीयतरङ्गः -- अनुबन्धानां विशेषतो निरूपणम्
- अधिकारिविषयकाक्षेपाः
संस्कृतविचारसागरे अनुबन्धानां *१ विशेषतो निरूपणं नाम द्वितीयस्तरङ्गः।
पूर्वतरङ्गे अनुबन्धजातं संक्षेपत उक्तम्। अस्मिंस्तु द्वितीयतरङ्गे तद्विस्तरतः प्रतिपाद्यते।
आवर्तः ४० – दुःखनिवृत्तावाक्षेपः
साधनचतुष्टयसंपन्नोऽधिकारीति पूर्वं प्रत्यादि। तेषु साधनेषु ‘मुमुक्षुता’ नामैका। सा च साधनेषूत्तमा। मुमुक्षुता नाम तीव्रतरमोक्षेच्छा। मोक्षः च सोपादानकारणजगन्निवृत्त्युपलक्षितब्रह्मावाप्तिरित्युच्यते। अत्र मोक्षलक्षणघटकविशेषणरूपप्रथमांशे *२ सोपादानकारणजगन्निवृत्तौ पूर्वपक्षी शङ्कते – मूलाविद्यया सह जगन्नाशं न कोऽपि वाञ्छति। किन्तु विवेकी तापत्रयनिवृत्तिमात्रं *३ वाञ्छति।
तापत्रयं च (1) आध्यात्मिकम् (2) आधिभौतिकम् (3) आधिदैविकं चेति। तत्र शरीरे ज्वरादिरोगक्षुत्पिपासादिजन्यं दुःखं *४ आध्यात्मिकम्, चोरव्याघ्रसर्पादिजन्यं दुःखं आधिभौतिकम् *५, यक्षराक्षसप्रेतपिशाचग्रहादिजन्यं शीतवातातपादिजन्यं च दुःखं आधिदैविकम्। एतस्त्रिविधदुःखनिवृत्तिरेव सर्वैः प्रार्थ्यते। न दुःखादन्यस्य कस्यचिदपि निवृत्तिर्विवेकिभिः प्रार्थ्यते। तस्मान्मूलाविद्यासहितजगन्निवृत्तौ न कस्यापीच्छा जायते। इति।
आवर्तः ४१
न च सर्वेषां निःशेषसकलदुःखनिबर्हणेच्छा विद्यते, समूलाज्ञानजगन्निवृत्तिमन्तरा न निःशेषदुःखोच्छेदः संभवति, इत्यतो निःशेषदुःखनिवृत्त्यन्यथानुपपत्त्या समूलाज्ञानजगन्निवृत्तिरर्थादाक्षिप्यत इति वाच्यम्।
आर्तानां धन्वन्तर्यादिकृतायुर्वेदोक्तभैषज्यसेवनात् ज्वरादिरोगहेतुकदुःखक्षयदर्शनात्। भोजनेन क्षुज्जन्यदुःखनिवृत्तेः सर्वानुभवसिद्धत्वाच्च। इत्थमेव तत्तत्प्रतीकारेण तत्तद्दुःखनिवृत्तिसंभवे समूलाज्ञानजगन्निवृत्तिमन्तरेणापि दुःखनिवृत्तेः संभावितत्वात् नापेक्ष्यते दुःखनिवृत्त्यर्थं समूलाज्ञानजगन्निवृत्तिः। तस्मान्मोक्षलक्षणघटकसमूलाज्ञानजगन्निवृत्तिरूपे विशेषणांशे न कस्यापीच्छा जायेत।
*१. कश्चित् किल गृही गृहप्रासादादिसमारम्भसमये परिसरवर्तिनाऽन्येन गृहस्थेन प्रतिरुद्धो न्यायाधिपतिद्वारा स्वस्वाम्यं संसाध्य यथा गृहारम्भे प्रवर्तते, तद्वदेवायं ग्रन्थकर्ताऽपि प्रथमतरङ्गे सामान्यतोऽनुबन्धचतुष्टयं निरूप्य ग्रन्थमारभमाणः पूर्वपक्ष्याक्षेपेण प्रतिबद्धः, श्रुतियुक्त्यनुभवादिप्रमाणावलम्बेन स्वपक्षं संसाधयन्निमं ग्रन्थमारभते।
*२. उपादानकारणं == मूलाविद्या।
*३. “न हि भिक्षुकाः सन्तीति स्थाल्यो नाधिश्रीयन्ते”, “न हि यूकाः सन्तीति वस्त्राणि न परिधीयन्ते”, “न हि मृगाः शलभाश्च सन्तीति शालयो नोप्यन्ते” इति यथा, तथा विवेकी तापत्रयभयान्न जगतो नाशमिच्छति। किन्तु तापत्रयनिवृत्तिमात्रमिच्छति, इतीयं साङ्ख्यमतानुयायिनां शङ्का।
*४. आत्मानमधिकृत्य वर्तमानं स्थूलसूक्ष्मशरीरमध्यात्मम्। ततो जायमानं दुःखादिकमाध्यात्मिकम्।
*५ स्वशरीरादिसङ्घातव्यतिरिक्तं सत् यत् चक्षुरिन्द्रियगोचरं तदधिभूतम्। ततो जायमानं दुःखादिकमाधिभौतिकम्।
*६. स्वशरीरादिसङ्घातव्यतिरिक्तं सत् यत् चक्षुरिन्द्रियागोचरं तदधिदैवम्। ततो जायमानं दुःखादिकमाधिदैविकम्।