ॐ गुरुपरमात्मने नमः

- १-३९ प्रथमतरङ्गः -- अनुबन्धानां सामान्यतो निरूपणम्


आवर्तः ३९ – संबन्धनिरूपणम्

(1) ग्रन्थस्य विषयस्य (प्रमेयस्य) च प्रतिपाद्यप्रतिपादकभावः संबन्धः। ग्रन्थः प्रतिपादकः, विषयः (जीवब्रह्मैक्यं) प्रतिपाद्यः। यत् विषयं विविच्य बोधयति, तत् प्रतिपादकम्। यत् बोध्यते तत्प्रतिपाद्यम्।

The relationship between the grantha and it’s subject matter is one of explained-explainer. The grantha is the explainer. The the subject-matter (oneness of jīva and brahman) is explained. That which examines and teaches, is the explainr. That which is taught is the explained.

(2) अधिकारिफलयोः प्राप्यप्रापकभावरूपः संबन्धः। फलं प्राप्यं, अधिकारी प्रापकः। यद्वस्तु लभ्यते तत् प्राप्यं, यो लब्धो स प्रापकः।

The relationship between the adhikārī (qualified aspirant) and phala (result) is one of prāpya and prāpaka. The result is prāpya, and the adhikārī is the prāpaka. That vastu which is obtained is prāpya. The one who obtained it is the prāpaka.

(3) अधिकारिविचारयोस्तु कर्तृकर्तव्यभावरूपः संबन्धः। अधिकारी कर्ता, कर्तव्यो विचारः। यः करोति स कर्ता, यत् क्रियते तत्कर्तव्यम्

The relationship between the adhikārī and the vicāra is one of kartā and kartavyatā. The adhikārī is the kartā (doer). What which should be done (kartavya) is the vicāra (contemplation). One who does is the doer (kartā). That which is done is the kartavya.

(4) ग्रन्थज्ञानयोः जन्यजनकभावः संबन्धः। विचारद्वारा ज्ञानं प्रति ग्रन्थो जनकः, ज्ञानं जन्यम्। यदुत्पादयति तज्जनकं, यदुत्पद्यते तज्जन्यम्। एवमेव *२ संबन्धान्तरमपि बोध्यम्।

The relationship between the grantha and the jñāna (knowledge) is one of janya and janaka. The grantha, through the means of vicāra (contemplation) creates. The knowledge is what is created. That which creates is the creator (janaka). That which is created is the janya. In the same way, other relationships should be known.

यस्तु साधनसम्पन्नो जिज्ञासुः प्रथमं पठेत्।
इमं तरङ्गं सततं मुक्तोऽसौ नात्र संशयः॥

इति श्रीवासुदेवब्रह्मेन्द्रसरस्वतीविरचिते विचारसागरे अनुबन्धसामान्यनिरूपणं नाम प्रथमस्तरङ्गः।

One who has the sādhana sampatti (qualifications), desires to know, and studies this first taraṅga (chapter) will be ever free. Have no doubt.

*१. संबन्धरूपानुबन्धकथने प्रयोजनम् – यस्य वस्तुनो येन सह संबन्धो भवति तस्य तद्विषयेप्युपयोगोऽस्ति। यथा कुलालादीनां घटादिना सह संबन्धोऽस्ति, अतः कुलालादयो घटाद्युत्पत्तिविषये उपयुज्यन्ते। यस्य येन संबन्धो नास्ति न तस्य तद्विषये उपयोगोऽस्ति। यथा चक्षुषो वाय्वाकाशाभ्यां संबन्धाभावात् तद्विषयीकरणे नोपयोगः। एवं ग्रन्थब्रह्मणोः संबन्धाभावे ग्रन्थस्य न ब्रह्म विषयो भवेत्। ग्रन्थोऽपि न ब्रह्मप्रतिपादकः स्यात्। तस्मात् परस्परोपकारसिद्ध्यर्थमनयोः संबन्धः अतद्वयावृत्त्या बोध्यबोधकभावरूपः कल्प्यते। इति।

*२. संबन्धान्तरशब्देन श्रवणादेर्ज्ञानेन सह, ज्ञानस्य च मोक्षेन सह साध्यसाधनभावरूपः संबन्धो विज्ञेयः।