ॐ गुरुपरमात्मने नमः

- ४०-१०८ द्वितीयतरङ्गः -- अनुबन्धानां विशेषतो निरूपणम्
- ८३-१०६ प्रयोजनविषयकाक्षेपाणां समाधानानि
- ८३-९८ “बन्धः सत्यः, स च ज्ञानेन निवर्तेत” इत्याक्षेपस्य समाधानानि


आवर्तः ९५ – प्रमातृदोषोऽपि नावश्यमध्यासहेतुः

प्रमातुर्लोभभयादिदोषाः नाध्यासहेतवः, लोभादिशून्यविरक्तानामपि शुक्तिकादौ रजताद्यध्यासदर्शनात्। परपक्षरीत्या दोषरूपहेत्वभावान्नाध्यासो जायेत। तस्मान्न प्रमातृदोषोऽध्यासहेतुः।