- ८३-१०६ प्रयोजनविषयकाक्षेपाणां समाधानानि
- ८३-९८ “बन्धः सत्यः, स च ज्ञानेन निवर्तेत” इत्याक्षेपस्य समाधानानि
आवर्तः ९४ – सादृश्यदोषो नावश्यमध्यासहेतुः
यदुक्तं अध्यासहेतुभूता दोषास्त्रयः, तेषु बन्धाध्यासे हेतुतयाऽन्यतमस्याप्युपलम्भाभावात् बन्धः सत्य इति; तन्न। यथा तुरीतन्तुवेमाद्यभावे पटो नोत्पद्यते, तथा दोषाभावेऽध्यासो यदि नोत्पद्येत तदा दोषोऽध्यासहेतुः स्यात्। न तु तथा भवति, सादृश्यदोषं विनैवात्मनि जात्यध्यासस्य जायमानत्वात्। ब्राह्मण्यादिजातिः स्थूलदेहधर्मो, नात्मनो नापि सूक्ष्मशरीरस्य। यतः पूर्वशरीरस्थित एवात्मा, सूक्ष्मशरीरं च शरीरान्तरप्राप्तावप्यनुवर्तते, न तु पूर्वशरीरस्थिता जातिः; सा तु भिद्यते। पूर्वशरीरस्थितजातिरेव शरीरान्तरेऽप्यनुवर्तनीयेति न नियमः। आत्मनो वा सक्ष्मशरीरस्य वा यदि जातिधर्मः स्यात्तर्हि जन्मान्तरीयशरीरे विलक्षणा जातिर्न स्यात्। अतो जन्मान्तरे जात्यन्तरविशिष्टशरीरस्याप्युपलब्धेर्न जातिरात्मनो वा सूक्ष्मशरीरस्य वा धर्मो भवति, किन्तु स्थूलशरीरस्यैव। तथापि ‘अहं द्विजः’ इत्यहमर्थे ब्राह्मणत्वक्षत्रियत्ववैश्यत्वादिजातिप्रतीत्यन्यथानुपपत्त्या आत्मनि ब्राह्मणत्वादिजात्यध्यासोऽभ्युपेयः। यथा रज्जौ परमार्थतः कालत्रयेऽप्यविद्यमानोऽपि सर्पः प्रतीत्यन्यथानुपपत्त्याऽध्यस्त इत्यभ्युपगम्यते, तथैवात्मनि परमार्थतः कालत्रयेऽप्यविद्यमानापि ब्राह्मणत्वादिजातिः प्रतीयमानत्वादध्यस्यते इत्यङ्गीकार्यम्। परन्तु जात्यात्मनोर्न किञ्चिदपि सादृश्यमस्ति। आत्मा व्यापकः प्रत्यक् विषयी चिद्रूपः। जातिस्तु परिच्छिन्ना पराचीना (?) विषयामिका जडा च। तथाप्यात्मनि तद्विलक्षणजात्यध्यासो जायते। यथा सादृश्यमन्तरात्मनि जात्यध्यासः संभवति तथा विनैव सादृश्यमहङ्कारादिबन्धाध्यासोऽप्यात्मनि संभवत्येव। तम्मात्सादृश्यदोषो नाध्यासहेतुः। किञ्च, सादृश्यस्याध्यासहेतुत्वाभ्युपगमे *१ शङ्खे पीतिमाध्यासः, *२ गुडे तिक्तताध्यासश्च न स्यात्; सादृश्याभावात्। प्रत्युत श्वैत्यपीतिम्नोः माधुर्यतिक्तत्वयोश्च विरुद्धयोरप्यध्यासोऽनुभूयते। तस्मादधिष्ठाने मिथ्यावस्तुनः सादृश्यरूपदोषो नाध्यासहेतुः।
*१. ‘नित्यमेकमनेकानुगतं सामान्यम्’ इति न्यायमते अनेकपदार्थसमवेता एका नित्या च जातिरित्यङ्गीकाराज्जात्यात्मनोर्लक्षणसादृश्यात्मकप्रमेयदोषसिद्धेरात्मनि जात्यध्यासो जायेत। अतः प्रमेयदोषोऽध्यासहेतुरिति कश्चन मन्येतेति मनसि निधाय शङ्खे पीतत्वाध्यासो दृष्टान्तत्वेनोच्यते।
*२. ननु शङ्खे पीतिमा नाध्यस्यते। किन्तु, काचकामलादिदोषदूषितनेत्रस्थपीतवर्णेन लिप्तत्वाच्छङ्खः पीतो भातीति चेन्न – घटे खचितं रत्नं, सुवर्णादिलेपो वा तत्कर्तुः सुवर्णकारादेरन्यस्यापि यथा सममेव प्रतीयते, तथा न सर्वेषां शङ्खे पीतवर्णः प्रतीयते। किन्तु काचादिदोषदूषितनेत्रस्यैव भाति, नान्यस्य। तस्मात् दोषदूषितनेत्रात् पीतवर्णो बहिर्निर्गत्य शङ्खेन नैव संसृज्यते। अपि तु शङ्खे पीतिमप्रतीतिर्भ्रम एव।
नन्वाकाशे परिपतन् पक्षी यस्य नेत्रवृत्तिसंयुक्तदेशादूर्ध्वमुड्डीय गतः, तस्यैव केवलं बहुदूरगमनपर्यन्तमनुसृत्य पश्यतो विषयीभवति, नान्यस्य। एवं यस्य नेत्रस्थपीतवर्णो लिप्तः शङ्खे, तस्यैव परमुपलभ्यते सः, नान्यस्येति चेन्न। आकाशे परिपतन् पक्षी यस्य नेत्रगोचरीभूताद्देशादूर्ध्वमुड्डीय गतः स एवान्यस्मै तमङ्गुल्या निर्दिश्य दर्शयति चेत्परोऽपि तं पक्षिणं पश्यत्येव। न त्वेवं शङ्खपीतिमवर्णोऽङ्गुल्या निर्दिश्य प्रदर्शितोऽपि परस्योपलभ्यते। तस्मान्न शङ्खे पीतवर्णः सत्यः, किन्त्वध्यस्त एव।
इत्थं शङ्खपीतिमाध्यासोऽन्तरेणैव सादृश्यमुत्पद्यमानोऽपि स दृष्टान्तः शङ्कासमाधानाभ्यामेव सिद्ध्यतीत्यतो निर्विवाददृष्टान्तं दर्शयति – गुडे तिक्ततेति।