ॐ गुरुपरमात्मने नमः

- ४०-१०८ द्वितीयतरङ्गः -- अनुबन्धानां विशेषतो निरूपणम्
- ८३-१०६ प्रयोजनविषयकाक्षेपाणां समाधानानि
- ८३-९८ “बन्धः सत्यः, स च ज्ञानेन निवर्तेत” इत्याक्षेपस्य समाधानानि


आवर्तः ९३ – तत्र समाधिः

सिद्धान्तानभिज्ञतयायमाक्षेपः। वेदान्तसिद्धान्तस्त्वयम् –

“जीव ईशो विशुद्धा चित् तथा जीवेशयोर्भिदा।
अविद्या तच्चितोर्योगः षडस्माकमनादयः”॥ इति।

(1) जीवः, (2) ईश्वरः, (3) ब्रह्म, (4) अनादिवस्तूनां परस्परं भेदः, जीवेशयोश्च भेदः, (5) अविद्या, (6) अविद्याचैतन्ययोः संबन्धः (स एव काल इत्युच्यते) षडेतानि स्वरूपतोऽनादिवस्तूनि।

*१. (1) अविद्याया अप्यधिष्ठानत्वान्नाविद्यातो ब्रह्म जायते। अन्तरेण ब्रह्म जीवेश्वरादयो न सिद्ध्यन्तीति न तेभ्यश्चतुर्भ्योऽपि ब्रह्म जायते। तस्मादनादिसिद्धं ब्रह्म।

(2) ब्रह्मणो निर्विकारत्वान्न ततोऽविद्या जायते। ईश्वरादिचतुष्टयसिद्धेरविद्यासिद्ध्यधीनत्वान्न ततोप्यविद्या जायते। इत्यविद्याप्यनादिरेव।

(3, 4) जीवेश्वरौ न केवलब्रह्मणो वा केवलमायाया वा उत्पद्येते। नापीश्वराज्जीवो वा जीवाद्वेश्वरो जायते। जीवेश्वरभेदस्य च जीवेश्वरसिद्ध्यधीनत्वान्न ततोऽपि जीवेश्वरोत्पत्तिः। अविद्याचित्संबन्धसिद्ध्यधीना जीवेश्वरसिद्धिः। अविद्याचित्संबन्धश्श्चानादिरेव। अनाद्यविद्याचित्संबन्धाधीनजीवेश्वरावप्यनादी एव।

(5) अविद्याचितोरनादित्वात् तयोस्तादात्म्यरूपसंबन्धोप्यनादिरेव। तस्मात् ब्रह्मणो वाऽविद्यातो वा न तस्योत्पत्तिः। ईश्वरादित्रयसिद्धिश्चाविद्याचित्संबन्धाधीना। अतस्तेभ्योऽपि न तस्योत्पत्तिः। अतः अविद्या चित्संबन्धोप्यनादिः।

(6) एतेषामन्योन्यभेदोप्यनादिरेव षण्णामप्येतेषामुत्पत्त्यभावात्। स्वरूपतोऽनादीनि षडेतानि। तत्र कालत्रयाबाध्यत्वात् अनाद्यनन्तं च कूटस्थनित्यं ब्रह्म। ज्ञानबाध्यत्वात्त्वितराणि पञ्च अनादिसान्तानीति विवेकः।

उत्पत्तिशून्यत्वं स्वरूपतोऽनादित्वम्। षडप्येतान्यनादीनि भवन्ति, उत्पत्तिशून्यत्वात् सम्मतवत्। अथवा, अहङ्कारादीनां श्रुतावुत्पत्तेः श्रूयमाणत्वात्तेषां स्वरूपतोऽनादित्वाभावेऽपि प्रवाहतोऽनादित्वमेष्टव्यम्। एवमेव सकलवस्तूनामपि सिद्धमेवानादित्वं, ‘घटादिकं वस्तु नास्ति’ इति व्यवहारयोग्यकालस्यैवाभावात्। तस्मात् घटादीनां प्रवाहोऽनादिरेव। एवमात्मातिरिक्तसर्ववस्तुप्रवाहोप्यनादिः। प्रलयकालेऽपि सुषुप्ताविव सर्वं जगत् संस्काररूपेण स्वकारणे वर्तते। तस्मात् प्रपञ्चप्रवाहस्य *२ अनादिकालसिद्धत्वात् प्रपञ्चोऽनादिः। ईदृग्ज्ञानशून्यस्यैव ‘प्रथमाध्यासहेतुभूतसंस्कारो न युज्यत’ इति शङ्का जायेत। वेदान्तसिद्धान्ते न कोप्यध्यासः ‘अयमेव प्रथमाध्यास’ इति वक्तुं शक्यते किन्तु सर्वोप्युत्तरोत्तराध्यासः स्वपूर्वपूर्वाध्यासकार्यमेव। तस्मादियं शङ्का न युक्ता। तथा च पूर्वोक्तरीत्यैव सजातीयवस्तुनः पूर्वानुभवजन्यसंस्कारमात्रेणाहङ्कारादिबन्धाध्यासः संभवति।

*२. अनादिकालसिद्धत्वात् चिरकालस्थायित्वाच्च प्रपञ्चः सत्य इत्याक्षेपस्यैव समाधानम् – रज्जुसर्पादिभ्रमः स्वप्नभ्रमश्च सर्वजनसाधारणः। स चानियमेनैकघटिकाप्रभृत्यनेकयामावस्थायी भवति, पूर्वसिद्धत्वेन अनादिसिद्धत्वेन च भाति। तथापि रज्जुतत्वसाक्षात्कारे जाग्रत्प्रबोधे च सति, *३ सर्पस्वप्नादीनां त्रैकालिकनिषेधप्रतियोगित्वनिश्चयो जायते। एवमेव प्रपञ्चाध्यासोऽपि भ्रमदशायमनादिरिव सत्य इव च भाति, तत्रावबोधे तु कालत्रयेऽपि नास्तीति निश्चयो जायते। तस्मात् प्रपञ्चो मिथ्या।

*३ मुद्रिते ग्रन्थे ‘सर्पस्वप्नादीनां’ इत्यस्य स्थाने ‘रजतस्वप्नादीनां’ इति यत्प्रकाशितं, तत् स्खलनमिति भाति।