ॐ गुरुपरमात्मने नमः

- ४०-१०८ द्वितीयतरङ्गः -- अनुबन्धानां विशेषतो निरूपणम्
- ८३-१०६ प्रयोजनविषयकाक्षेपाणां समाधानानि
- ८३-९८ “बन्धः सत्यः, स च ज्ञानेन निवर्तेत” इत्याक्षेपस्य समाधानानि


आवर्तः ९२ – प्राथमिकाध्यासे संस्कारस्य हेतुत्वासंभव इत्याक्षेपः

स्यादेतत् – यद्यप्युत्तरोत्तराहङ्काराद्यध्यासं प्रति पूर्वपूर्वाध्यासानुभवजन्यसंस्कारः कारणमिति युक्तं, तथापि प्राथमिकाहंकारस्य तज्ज्ञानस्य चोत्पत्तौ संस्कारो हेतुरिति न युज्यते, ततः पूर्वं संस्काराभावात्। यदि प्राथमिकाहङ्कारोत्पत्तेः पूर्वमहङ्कारान्तरं स्यात् तदा तद्विषयकज्ञानेन संस्कारो जायेत। न तु प्राथमिकाहङ्कारात् पूर्वमहङ्कारान्तरमस्तीत्यभ्युपगम्यते। एवमेव सकलवस्तूनां प्राथमिकाध्यासस्य हेतुः संस्कार इति वक्तुं न शक्यते।